काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 87, कुल 381 में से
संदर्भ में पढ़ें३२ काव्यमीमांसायाम् "युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि। क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा- नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥" 5 अभ्यनुज्ञोपहासकाकू— "मथ्नामि कौरवशतं समरे न कोपा- दुःशासनस्य रुधिरं न पिबाम्युरस्तः। सञ्चूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन ॥" एवं त्रिचतुरकाकुयोगोऽपि। तत्र त्रियोगः— 10 “सेयं पश्यति नो कुरङ्गवधूस्त्रस्तैवमुद्वीक्षते तस्याः पाणिरयं न मारुतचलत्पत्राङ्गुलिः पल्लवः। तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति ॥" चतुर्योगः— "उच्यतां स वचनीयमशेषं 15 नेश्वरे परुषता सखि साध्वी। आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥" “सख्या वा नायिकाया वा सखीनायिकयोरथ। सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता ॥ 20 पदवाक्यविदां मार्गो योऽन्यथैव व्यवस्थितः। सत्त्वाङ्गाभिनयो(य)द्योत्या तं काकुः कुरुतेऽन्यथा ॥ अयं काकुकृतो लोके व्यवहारो न केवलम्। शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितम् ॥ कामं विवृणुते काकुरर्थान्तरमतन्द्रिता। 25 स्फुटीकरोति तु सतां भावाभिनयचातुरीम् ॥ इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् । यथा निबन्धनिगडच्छायां काश्चिन्निषिञ्चति ॥