काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 86, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये सप्तमोऽध्यायः । ३१
यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वा- क्यानि विधेयानि । इति दिव्यम् । इह हि प्रायोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासु- देवस्य वचो वैष्णवम् [इति] । तन्मानुषमिति व्यपदिशन्ति । तच्च त्रिधा रीतिन्त्रयभेदेन । तदाहुः— “वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः । आशु(सु) च साक्षान्निवर्सति सरखती तेन लक्ष्यन्ते॥” रीतिरूपं वाक्यत्रितयम् । काकुः पुनरनेक्यति । “काकुर्व(व)क्रो- क्तिर्नाम शब्दालङ्कारोऽयम्” इति रुद्रटः । “अभिप्रायवान्पाठधर्मः काकुः । स कथमलङ्कारी स्यात् ?” इति यायावरीयः । सा च द्विधा साकाङ्क्षा निराकाङ्क्षा च । वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा । वाक्यो- त्तरभाविनी निराकाङ्क्षा । तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् । तदेव काक्वन्तरेण निराकाङ्क्षम् । आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा चेति साकाङ्क्षा । विधिरूपा, उत्तररूपा, निर्णयरूपेति निराकाङ्क्षा । तत्राक्षेपगर्भा— “यदि मे वल्लभा दूती तदाऽहमपि वल्लभा । यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः ॥” एवमेव निर्देष्टुर्विधिरूपा । प्रश्नगर्भा— “गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु । वर्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः ॥” इयमेवोपदेष्टुरुत्तररूपा । वितर्कगर्भा— “नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥” इयमेवोपदेष्टुर्निर्णयरूपा । ता इमास्तिस्रोऽपि नियतनिबन्धाः । तद्विपरीताः पुनरनन्ताः । तत्राभ्युपगमानुनयकाकू—