भारतकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 88, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 88

[Header] कविरहस्ये सप्तमोऽध्यायः । ३३

करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा । पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती ॥ यथा जन्मान्तराभ्यासात्कण्ठे कस्यापि रक्तता । तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितम् ॥ ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् । ५ प्राकृतं भूतभाषां च सौष्ठवोत्तरमुद्धरेत् ॥ प्रसन्ने मन्द्रयेद्वाचं तारयेत्तद्विरोधिनि । मन्द्रतारौ च रचयेन्निर्वाहिणि यथोत्तरम् ॥ ललितं काकुसमन्वितमुज्जवलमर्थवशकृतपरिच्छेदम् । श्रुतिसुखविविक्तवर्णं कवयः पाठं प्रशंसन्ति ॥ १० अतितूर्णमतिविलम्बितमुल्बणनादं च नादहीनं च । अपदच्छिन्नमनावृतमतिमृदु परुषं च निन्दन्ति ॥ गंम्भीरत्वमनैश्व(ष्ठु)र्यं निर्व्यूढिस्तारमन्द्रयोः । संयुक्तवर्णलावण्यमिति पाठगुणाः स्मृताः ॥ यथा व्याघ्री हरेत्पुत्रान्दंष्ट्राभिश्च न पीडयेत् । १५ भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥ विभक्तयः स्फुटा यत्र समासश्चाकदर्थितः । अम्लानः पदसन्धिश्च तत्र पाठः प्रतिष्ठितः ॥ न व्यस्तपदयोरैक्यं न भिदां तु समस्तयोः । न चाख्यातपदम्लानिं विदधीत सुधीः पठन् ॥ २० आगोपालकमायोषिदास्तामेतस्य लेह्यता । इत्थं कविः पठन्काव्यं वाग्देव्या अतिवल्लभः ॥ येऽपि शब्दविदो नैव नैव चार्थविचक्षणाः । तेषामपि सतां पाठः सुष्ठु कर्णरसायनम् ॥ पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि ते । २५ वाणार(राण)सीतः पूर्वेण ये केचिन्मगधादयः ॥” आह स—"ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया । गौडस्त्यजतु वा गाथामन्या वाऽस्तु सरस्वती ॥


[Footnotes] १ C गम्भीरत्वमवैखर्यं. ५