भारतकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 84, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 84

कविरहस्ये सप्तमोऽध्यायः । २९

आर्षम्—“यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः । प्रत्यक्षाभिहितार्थं च तदृषीणां वचः स्मृतम् ॥” आर्षीकम्—“नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् । न चापि सुमहेद्वाक्यमृषीकाणां वचस्तु तत् ॥” आर्षिपुत्रकम्—“अविस्पष्टपदप्रायं यच्च स्याद्बहुसंशयम् । ऋषिपुत्रवचस्तत्स्यात्ससर्वपरिदेवनम् ॥” तदुदाहरणानि पुराणेभ्य उपलभेत । सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति । ब्रह्मविष्णुरुद्रगु- हबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरं क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति व्यपदिश्यते । देवयोनयस्तु— “विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः । सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः ॥” तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनो मर्त्ये तु भूतभाषया व्यवहरन्तो निबन्धनीयाः । अप्सरसस्तु प्राकृतभाषया । तद्दिव्यं वचश्चतुर्द्धा वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च [इति] । शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन । तत्र वैबुधम्— “समासव्याससंदग्धं शृङ्गाराद्भुतसम्भृतम् । सानुप्रासमुदारं च वचः स्यादमृताशिनाम् ॥” यथा—“यच्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटाकुहरे हरस्य । तद्भोः पुनातु हिमशैलशिलानिकुञ्ज- झत्कारडम्बरविरावि सुरापगाम्भः ॥” वैद्याधरम्—“स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च । द्राघीयसा समासेन विद्धि वैद्याधरं वचः ॥”


१ A सुमहा०. २ A ऋषीणां हि. ३ B उपलभ्येत. ४ B ०वुपदिष्टं.