काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 83, कुल 381 में से
संदर्भ में पढ़ें२८ काव्यमीमांसायाम् “योनिरुदूखलं शिश्नं मुसलं मिथुनमेवैतत् प्रजननं क्रियते ॥” आर्ष:—“उपोप मे परामृश मा मे दभ्राणि मन्यथाः । सर्वाऽहमस्मि रोमशा गन्धारीणामिवाविका ॥” शास्त्रीय:—“यस्याः प्रसन्नधवलं चक्षुः पर्यन्तपक्ष्मलम् । नवनीतोपमं तस्या भवति स्मरमन्दिरम् ॥” पदवाक्यविवेकोऽयमिति किञ्चित्प्रपञ्चितः । अथ वाक्यप्रकारांश्च कांश्चिदन्यान्निबोधत ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे षष्ठोऽध्यायः पदवाक्यविवेकः ॥ सप्तमोऽध्यायः पाठप्रतिष्ठा । वाक्यं वचनमिति व्यवहरन्ति । तच्च त्रिधा प्रणेतृभेदेन ब्राह्मं, शैवं, वैष्णवमिति । तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत ब्राह्मं वचः पञ्चधा स्वायम्भुवमैश्वरमर्षिमार्षीकमार्षिपुत्रकं च [इति]। स्वयम्भू्र्ब्रह्मा तस्य स्वायम्भुवम् । तन्मनोजन्मानो भृगुप्रभृतयः पु- त्रास्ते ईश्वरास्तेषामैश्वरम् । ईश्वराणां सुता ऋषयस्तेषामार्षम् । ऋषी- णामपत्यानि ऋषीकास्तेषामार्षीकम् । ऋषीकाणां सूनव ऋषिपुत्र- कास्तेषामार्षिपुत्रकम् । स्वयम्भुवः प्रथमं वचः श्रुतिः । श्रुतेरन्यच्च स्वायम्भुवम् । तदाहुः— “सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् । क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत् ॥” तदेव स्तोकरूपान्तरपरिणतमैश्वरं वचः । उक्तञ्च— “व्यक्तक्रममसङ्क्षिप्तं दीप्तगम्भीरमर्थवत् । प्रत्यक्षं च परोक्षं च लक्ष्य्तामैश्वरं वचः ॥” १ B तस्मै जननं. २ B गान्धारिणा० ३ A omits च. ४ A लिंश्यता०.