काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 91, कुल 381 में से
संदर्भ में पढ़ें३६ काव्यमीमांसायाम् ऐतिहासिकः—"न स सङ्कुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥" अत्र—"मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वः समयो विमृश्यताम् । जगज्जिघृत्सातुरकण्ठपद्धति- र्न वालिनैवाहिततृसिरन्तकः ॥" पौराणिकः—"हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाऽप्युदैक्षत । भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः ॥" अत्र—"स सञ्चरिष्णुर्भुवनत्रयेऽपि यां यदृच्छयाऽशिश्रियदाश्रयः श्रियः । अकारि तस्यै मुकुटोपलस्खलत्- करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥" अत्राहुः—"श्रुतीनां साङ्गशाखानामितिहासपुराणयोः । अर्थग्रन्थः कथाभ्यासः कवित्वस्यैकमौषधम् ॥ इतिहासपुराणाभ्यां चक्षुर्भ्यामिव सत्कविः । विवेकाञ्जनशुद्धाभ्यां सूक्ष्ममप्यर्थमीक्षते ॥ वेदार्थस्य निबन्धेन श्लाघ्यन्ते कवयो यथा । स्मृतीनामितिहासस्य पुराणस्य तथा तथा ॥" द्विविधः प्रामाणिको मैमांसकस्तार्किकश्च । तत्र प्रथमः । शब्दस्य सामान्यमभिधेयं विशेषश्चार्थः । अत्र— "सामान्यवाचि पदमप्यभिधीयमानं मां प्राप्य जातमभिधेयविशेषनिष्ठम् । स्त्री काचिदित्यभिहिते सततं मनो मे तामेव वामनयनां विषयीकरोति ॥" १ B जिधित्सा०. २ A हत. ३ V त्रिसन्ध्यं त्रिर्दिशे नमः. ४ B भुवनान्तरेषु ५ B तदाहुः. ६ B श्लाघंते.