काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 95, कुल 381 में से
संदर्भ में पढ़ेंतस्य रत्नाकरसुता श्रियो देव्याः सहोदरी । स्वयंवरविधावासीत्कलत्रं चित्रसुन्दरी ॥” द्वितीया— “ज्योत्स्नां लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालती- मालां गन्धजलैर्मधूनि कुरुते खादून्यसौ फाणितैः । यस्तस्य प्रथितान्गुणान्प्रथयति श्रीवीरचूडामणेः तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥” अत्राहुः— “नीचैर्नार्थैः कथासङ्गे(र्गे।) यस्य न प्रतिभाक्षयः । स कविग्रामणीरत्रं शेषास्तस्य कुटुम्बिनः ॥” अभिहितेभ्यो यदन्यत्तत्प्रकीर्णकम् । तत्र हस्तिशिक्षीयः— “मेघानां क्षणहासतामुपगतो हारः प्रकीर्णो दिशा- माकाशोल्लसितामितामरवधूपीनस्तनास्फालकः । क्षुण्णश्चन्द्र इवोल्बणो मदवशादैरावणप्रेरितः पायाद्वः परिपाकपाण्डुलवँलीश्रीतस्करः शीकरः ॥” रत्नपरीक्षीयः— “द्वौ वज्रवण जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ । यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससंनिकाशः ॥” धनुर्वेदीयः— “स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् । ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥” योगशास्त्रीयः— “यः सर्वेषां हृदयकमले प्राणिनामेकहंस- स्त्वं जागर्षि स्वपिषि च मुहुर्बुद्ध्यसे नापि बुद्धः । तं त्वाराध्य प्रविततधियो बन्धभेदं विधाय ध्वस्तातङ्का विमलमहसस्ते भवन्तो भवन्ति ॥” १ A नार्थं. २ B ०स्त्वत्र, ३ B ०मराधिपवधू. ४ A B लवलश्री०.