काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 94, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये अष्टमोऽध्यायः । ३९ कामसूत्रीयः—"नाश्चर्यं त्वयि यल्लक्ष्मीः क्षित्वाऽधोक्षजमागता । असौ मन्दरतस्त्वं तु प्राप्तः समरतस्तया ॥" लौकिकस्तु द्विधा प्राकृतो व्युत्पन्नश्च । तयोः प्रथमः— "स्फुटितपिठरीबन्धश्लाघ्यो विपक्षगृहेऽप्यभूत् प्रियतम ययोः स्नेहग्रन्थिस्तथा प्रथमं स नौ । ५ जनवदधुना सद्मन्यावां वसाव इहैव तौ धिगपरिचितं प्रेम स्त्रीणां चिराय च जीवितम् ॥" यथा वा—"इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य च । वाराहस्य च मांसस्य सैष गच्छति फाल्गुनः ॥" द्वितीयो द्विधा समस्तजनजन्यः कतिपयजनजन्यश्च । तयोः प्रथ- १० मोऽनेकधा देशानां बहुत्वात् । तत्र दाक्षिणात्यः— "पिबन्त्यास्वाद्य मरिचं ताम्बूलविशदैर्मुखैः । प्रियाधरावदंशानि मधूनि द्रमिडाङ्गनाः ॥" यथा वा—"विरम मदन कस्त्वं चैत्र का शक्तिरिन्दो- रिह हि कुसुमबाणाः कुण्ठिताग्राः स्खलन्ति । १५ हृदयभुव इमास्ताः कुन्तलप्रेयसीनां प्रहतिकिणकठोरग्रन्थयो वज्रसाराः ॥" उदीच्यः