भारतकोश
संग्रह पर लौटें

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

कविरहस्ये अष्टमोऽध्यायः । ३९ कामसूत्रीयः—"नाश्चर्यं त्वयि यल्लक्ष्मीः क्षित्वाऽधोक्षजमागता । असौ मन्दरतस्त्वं तु प्राप्तः समरतस्तया ॥" लौकिकस्तु द्विधा प्राकृतो व्युत्पन्नश्च । तयोः प्रथमः— "स्फुटितपिठरीबन्धश्लाघ्यो विपक्षगृहेऽप्यभूत् प्रियतम ययोः स्नेहग्रन्थिस्तथा प्रथमं स नौ । ५ जनवदधुना सद्मन्यावां वसाव इहैव तौ धिगपरिचितं प्रेम स्त्रीणां चिराय च जीवितम् ॥" यथा वा—"इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य च । वाराहस्य च मांसस्य सैष गच्छति फाल्गुनः ॥" द्वितीयो द्विधा समस्तजनजन्यः कतिपयजनजन्यश्च । तयोः प्रथ- १० मोऽनेकधा देशानां बहुत्वात् । तत्र दाक्षिणात्यः— "पिबन्त्यास्वाद्य मरिचं ताम्बूलविशदैर्मुखैः । प्रियाधरावदंशानि मधूनि द्रमिडाङ्गनाः ॥" यथा वा—"विरम मदन कस्त्वं चैत्र का शक्तिरिन्दो- रिह हि कुसुमबाणाः कुण्ठिताग्राः स्खलन्ति । १५ हृदयभुव इमास्ताः कुन्तलप्रेयसीनां प्रहतिकिणकठोरग्रन्थयो वज्रसाराः ॥" उदीच्यः

तस्य रत्नाकरसुता श्रियो देव्याः सहोदरी । स्वयंवरविधावासीत्कलत्रं चित्रसुन्दरी ॥” द्वितीया— “ज्योत्स्नां लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालती- मालां गन्धजलैर्मधूनि कुरुते खादून्यसौ फाणितैः । यस्तस्य प्रथितान्गुणान्प्रथयति श्रीवीरचूडामणेः तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥” अत्राहुः— “नीचैर्नार्थैः कथासङ्गे(र्गे।) यस्य न प्रतिभाक्षयः । स कविग्रामणीरत्रं शेषास्तस्य कुटुम्बिनः ॥” अभिहितेभ्यो यदन्यत्तत्प्रकीर्णकम् । तत्र हस्तिशिक्षीयः— “मेघानां क्षणहासतामुपगतो हारः प्रकीर्णो दिशा- माकाशोल्लसितामितामरवधूपीनस्तनास्फालकः । क्षुण्णश्चन्द्र इवोल्बणो मदवशादैरावणप्रेरितः पायाद्वः परिपाकपाण्डुलवँलीश्रीतस्करः शीकरः ॥” रत्नपरीक्षीयः— “द्वौ वज्रवण जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ । यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससंनिकाशः ॥” धनुर्वेदीयः— “स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् । ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥” योगशास्त्रीयः— “यः सर्वेषां हृदयकमले प्राणिनामेकहंस- स्त्वं जागर्षि स्वपिषि च मुहुर्बुद्ध्यसे नापि बुद्धः । तं त्वाराध्य प्रविततधियो बन्धभेदं विधाय ध्वस्तातङ्का विमलमहसस्ते भवन्तो भवन्ति ॥” १ A नार्थं. २ B ०स्त्वत्र, ३ B ०मराधिपवधू. ४ A B लवलश्री०.

अष्टमोऽध्यायः । ४१

एवं प्रकीर्णकान्तरमपि । उचितसंयोगः— “पाण्ड्योऽयमंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥” योक्तृसंयोगः— “कुर्वद्भिः सुरदन्तिनो मधुलिहामस्वादु दानोदकं तन्वानैर्नमुचिद्रुहो भगवतश्चक्षुःसहस्रव्यथाम् । मज्जन्स्वर्गतराङ्गिणीजलभरे पङ्कीकृते पांसुभि- र्यद्यात्राव्यसनं निनिन्द विमनाः स्वर्लोकनारीजनः ॥” उत्पाद्यसंयोगः— “उभौ यदि व्योम्नि पृथक्प्रवाहा- वाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनील- मामुक्तमुक्तालतमस्य वक्षः ॥” संयोगविकारः— “गुणानुरागमिश्रेण यशसा तव सर्पता । दिग्वधूनां मुखे जातमकस्मादार्द्रकुङ्कुमम् ॥ यथा वा— “उन्माद्यत्यम्बुराशिर्विदलति कुमुदं सङ्कुचन्त्यम्बुजानि स्यन्दन्ते चन्द्रकान्ताः पतितसुमनसः सन्ति शेफालिकाश्च । पीयन्ते चन्द्रिकाम्भः क्रमसरलगलं किं च किञ्चिच्चकोरा- श्चन्द्रे कर्पूरगौरद्युतिभृति नभसो याति चूडामणित्वम् ॥” इदं कविभ्यः कथितमर्थोत्पत्तिपरायणम् । इह प्रगल्भमानस्य न जात्वर्थकदर्थना ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे अर्थानुशासने पोडश काव्यार्थयोनयः अष्टमोऽध्यायः ॥

४२ काव्यमीमांसायाम्

नवमोऽध्यायः अर्थव्याप्तिः ।

“स त्रिधा” इति द्रौहिणिः, दिव्यो, दिव्यमानुषो, मानुषश्च । “सप्तधा” इति यायावरीयः; पातालीयो, मर्त्यपातालीयो, दिव्य- पातालीयो, दिव्यमर्त्यपातालीयश्च । तत्र दिव्यः— “स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बरो- रुद्गीतं नलकूबरस्य विरहादुत्कण्ठुलं रम्भया । तेनैरावणकर्णचापलमुषा शक्रोऽपि निद्रां जह- द्भूयः कारित एव हासिनि शचीवक्त्रे दृशां सम्भ्रमम् ॥” दिव्यमानुषस्तु चतुर्द्धा । दिव्यस्य मर्त्यागमने, मर्त्यस्य च स्वर्ग- गमन इत्येको भेदः । दिव्यस्य मर्त्यभावे, मर्त्यस्य च दिव्यभाव इति द्वितीयः । दिव्येतिवृत्तपरिकल्पनया तृतीयः । प्रभावाविर्भूतदिव्य- रूपतया चतुर्थः । तत्र दिव्यस्य मर्त्यागमनम्— “श्रियः पतिः श्रीमति शासितुं जग- ज्जगन्निवासो वसुदेवसद्मनि । वसन्ददर्शावतरन्तमम्बरा- द्धिरण्मगर्भाङ्गभुवं मुनिं हरिः ॥” मर्त्यस्य स्वर्गगमनम्— “पाण्डोर्नन्दन नन्दनं वनमिदं सङ्कल्पजैः सीधुभिः कृत्तापानककेलि कल्पनतरुषु द्वन्द्वैः सुधालेहिनाम् । अप्यत्रेन्दुशिलालवालवलयं सन्तानकानां तले ज्योत्स्नासङ्गलदच्छनिर्झरजलैर्यत्रं विना पूर्यते ॥” दिव्यस्य मर्त्यभावः—“इति विकसति तस्मिन्नन्ववाये यदूनां समजनि वसुदेवो देवकी यत्कलत्रम् । किमपरमथ तस्मात्षोडशस्त्रीसहस्र- प्रणिहितपरिरम्भः पद्मनाभो बभूव ॥”


१ V A कण्ठुलं, V B कण्ठलं. २ A जलं. ३ A पूर्ज्यते.

नवमोऽध्यायः । ४३ मर्त्यस्य दिव्यभावः—"आकाशयानतटकोटिकृतैकपादा- स्तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः । कौतूहलात्तव तरङ्गविघट्टितानि पश्यन्ति देवि¹ मनुजाः स्वकलेवराणि ॥" दिव्येतिवृत्तपरिकल्पना— "ज्योत्स्नापूरप्रसरविशदे सैकतेऽस्मिन्सरय्वा वादद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् । एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥" प्रभावाविर्भूतदिव्यभावः— "मा गाः पातालमुर्वि² स्फुरसि किमपरं पात्यमानः कुदैत्यै स्त्रैलोक्यं पादपीठप्रथिम नहि बले पूरयस्यूनमङ्गेः । इत्युत्स्म्रायमाने भुवनभृति शिशावङ्कसुप्ते यशोदा पायाच्चक्राङ्गपादप्रणतिपुलकितस्मेरगण्डस्थला वः ॥" मर्त्यः—"वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे पदे रिक्ते रिक्ते विनिहितपदार्थान्तरमिति । नदीस्रोतो न्यायादकलितविवेकक्रमघनं न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च ॥" पातालीयः— "कर्कोटः कोटिकृत्व³ः प्रणमति पुरतस्तक्षके देहि चक्षुः सज्जः सेवाञ्जलिस्ते कपिलकुलिकयोः स्तौति च स्वस्तिकस्त्वाम् । पद्मः सङ्घैष भक्तेर्वलगति पुरः कम्बलोऽयं बलोऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः ॥" मर्त्यपातालीयः—"आर्द्रावले व्रज न वेत्स्यपकर्ण कर्णं द्विः सन्दधाति न शरं हरशिष्यशिष्यः । तत्साम्प्रतं समिति पश्य कुतूहलेन मर्त्यैः शरैरपि किरीटिकिरीटमाथ⁴म् ॥" १ V A देव. २ B मूर्ध्नि. ३ A कोटिकुण्ठः. ४ A नाथम्.

४४ काव्यमीमांसायाम् इहापि पूर्ववत्समस्तमिश्रभेदानुगमः । दिव्यपातालीयः— “स पातु वो यस्य शिखाश्मकर्णिकं स्वदेहनालं फणपत्रसञ्चयम् । विभाति जिह्वायुगलोलकेसरं पिनाकिनः कर्णभुजङ्गपङ्कजम् ॥” स्वर्गमर्त्यपातालीयः— “आंस्तीकोऽस्ति मुनिः स्म विस्मयकृतः पारीक्षितीयान्मखा- त्त्राता तक्षकक्ष्मणः फणभृतां वंशस्य शक्रस्य च । उद्वेल्लन्मलयाद्रिचन्दनलतास्वान्दोलनप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते ॥” सोऽयमित्थङ्कारमुल्लिख्योपजीव्यमानो निःसीमाऽर्थसार्थः सम्प- द्यते । “अस्तु नाम निःसीमाऽर्थसार्थः । किन्तु द्विरूप एवासौ विचा- रितसुस्थोऽविचारितरमणीयश्च [इति]। तयोः पूर्वमाश्रितानि शा- स्त्राणि तदुत्तरं काव्यानि” इत्याौद्भटाः । यथा— “अपां लङ्घयितुं राशिं रुचा पिञ्जरयन्नभः । ज्वमुत्पपात हनुमान्नीलोत्पलदलद्युतिं ॥” यथा वा—“त आकाशमसिश्याममुत्पत्य परमर्षयः । आसेदुरोषधिप्रस्थं मनसा समरंहसः ॥” यथा च—“तदेव वारि सिन्धूनां महत्स्तेमार्चिषामिति” इत्यादि ॥ “न स्वरूपनिबन्धनमिदं रूपमाकाशस्य सरित्सलिलादेर्वा किन्तु प्रतिभासनिबन्धनम् । न च प्रतिभासस्तादात्म्येन वस्तुन्यवतिष्ठते । यदि तथा स्यात्सूर्याचन्द्रमसोर्मण्डले दृष्ट्या परिच्छिद्यमानद्वादशाङ्गु- लप्रमाणे पुराणाद्यागमनिवेदितधरावलयमात्रे न स्तः” इति यायाव- रीयः। एवं नक्षत्रादीनां सरित्सलिलादीनामन्येषां च । यथाप्रतिभासं च वस्तुनः स्वरूपं शास्त्रकाव्ययोर्निबन्धोपयोगि । शास्त्रे यथा— १ A अस्तीको. २ V खन्दोलन. ३ C संल्लिख्योपजीव्यमानो. ४ B द्युतिः. ५ C दृष्ट्यपरिच्छिद्यमान.

नवमोऽध्यायः । ४५ “प्रशान्तजलभृत्पङ्के विमले वियदम्भसि । ताराकुमुदसम्बन्धे हंसायत इवोडुराट् ॥” काव्यानि पुनरेतन्मयान्येव । “अस्तु नाम निःसीमाऽर्थसार्थः । किन्तु रसवत्त एव निबन्धो युक्तो न नीरसस्य” इत्यपराजितिः । यदाह— “मज्जनपुष्पावचयनसन्ध्याचन्द्रोदयादिवाक्यमिह । सरसमपि नातिबहुलं प्रकृतरसानन्वितं रचयेत् ॥ यस्तु सरिद्रिसागरपुरतुरगरथादिवर्णने यत्नः । कविशक्तिख्यातिफलो विततधियां नो मतः स इह ॥” ‘आम्’ इति यायावरीयः । अस्ति चानुभूयमानो रसस्यानुगुणो विगुणश्चार्थः, काव्ये तु कविवचनानि रसयन्ति विरसयन्ति च नार्थाः । अन्वयव्यतिरेकाभ्यां चेदमुपलभ्यते । तत्र सरिद्वर्णनरसवत्ता— “एतां विलोकय तनूदरि ताम्रपर्णी— मम्भानिधौ विवृतशुक्तिपुटोद्धृतानि । यस्याः पयांसि परिणाहिषु हारमूर्त्या वामभ्रुवां परिणमन्ति पयोधरेषु ॥” अद्रिवर्णनरसवत्ता— “एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुव- श्चौपाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः । यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥” सागरवर्णनरसवत्ता— “धत्ते यत्किलकिञ्चितैकगुरुतामेणीदृशां वारुणी वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकार्द्रं नभः । यच्च स्वर्गसदां वयः स्मरसुहृन्नित्यं सदा सम्पदाम् यल्लक्ष्मीरधिदैवतं च जलधेस्तत्कान्तमाचेष्टितम् ॥” १ B अप. २ B omits तु. ३ B omits विरसयन्ति and reads न चार्थो ४ A तलोदरि. ५ B छाया.

२. कवि-विशेष व काव्य-पाक रहस्य (अध्याय ७-९)

४८ काव्यमीमांसायाम् निबन्ध(न्धे)शुद्धः— “स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् । प्रतिनयननिपाते किञ्चिदाकुञ्चितानां सुचिरमहमभूवं पात्रमालोकितानाम् ॥” ५ चित्रः— “अलसवलितमुग्धस्निग्धनिष्पन्दमन्दै- रधिकविकसदन्तर्विस्मयस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षै- रपहृतमपविद्धं पीतमुन्मूलितं च ॥” कथोत्थः— “अभिलाषमुदीरितेन्द्रियः १० स्वसुतायामकरोत्प्रजापतिः । अथ तेन निगृह्य विक्रिया- मभिशप्तः फलमेतदन्वभूत् ॥” संविधानकभूः— “क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । १५ तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥” आख्यानकवान्— “पत्युः शिरश्चन्द्रकलामेनैन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशी- २० र्माल्येन तां निर्वचनं जघान ॥” किञ्च संस्कृतवत्सर्वासपि भाषासु यथासामर्थ्यं यथारुचि यथा- कौतुकं चावहितः स्यात् । शब्दार्थयोश्चाभिधानाभिधेयव्यापार- प्रगुणतामवबुध्येत । तदुक्तम्— i एकोऽर्थः संस्कृतोक्त्या ससुकविरचनः प्राकृतेनापरोऽस्मि- न्न्योऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण । १ A संविभानभूः. २ B आख्यानवान्.

कविरहस्ये दशमोऽध्यायः । ४९ द्वित्राभिः कोऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद्विवेक्तुं यस्येत्थं धीः प्रगल्भा स्नपयति सुकवेस्तस्य कीर्त्तिर्जगन्ति ॥१ इत्थङ्कारं घनै्यर्थैर्युत्पन्नमनसः कवेः । दुर्गमेऽपि भवेन्मार्गे कुण्ठिता न सरस्वती ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे अर्थानुशासने अर्थव्याप्तिर्नवमोऽध्यायः ॥ दशमोऽध्यायः कविचर्या राजचर्या च । गृहीतविद्योपविद्यः काव्यक्रियायै प्रयतेत । नामधातुपारायणे, अभिधानकोशः, छन्दोविचितिः, अलङ्कारतन्त्रं च काव्यविद्याः । क- लास्तु चतुःषष्टिरुपविद्याः । सुजनोपजीव्यकविसन्निधिः, देशवार्ता, १० विदग्धवादो, लोकयात्रा, विद्वद्गोष्ठ्यश्च काव्यमातरः पुरातनक- विनिबन्धाश्च । किञ्च— स्वास्थ्यं प्रतिभाऽभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिदार्ढ्यमनिर्वेदश्च मातरोऽष्टौ कवित्वस्य ॥ अपि च नित्यं शुचिः स्यात् । त्रिधा च शौचं वाक्शौचं, मनः- १५ शौचं, कायशौचं च । प्रथमे शास्त्रजन्मनी । तार्तीयीकं तु सनख- च्छेदौ पादौ, सताम्बूलं मुखं, सविलेपनमात्रं वपुः, महार्हमनुल्बणं च वासः, सकुसुमं शिर इति । शुचि शीलनं हि सरस्वत्याः संव- ननमामनन्ति । स यत्स्वभावः कविस्तदनुरूपं काव्यम् । यादृशाकार- श्चित्रकरस्तादृशाकारमस्य चित्रमिति प्रायोवादः । स्मितपूर्वमभि- २० भाषणं, सर्वत्रोक्तिगर्भमभिधानं सर्वतो रहस्यान्वेषणं, परकाव्यदूष- णवैमुख्यमनभिहितस्य, अभिहितस्य तु यथार्थमभिधानम् । तस्य भवनं सुसंसृष्टं, ऋतुषट्कोचितविविधस्थानं, अनेकतरुमू- लकल्पितापाश्रयवृक्षवाटिकं, सक्रीडापर्वतकं, सदीर्घिकापुष्करि- १ B प्रपन्ना.

५० काव्यमीमांसायाम्

णीकं, ससरित्समुद्रावर्त्तकं, सकुल्याप्रवाहं, सबर्हिणहरिणहारीतं, ससारसचक्रवाकहंसं, सचकोरक्रौञ्चकुररशुकसारिकं, घर्मक्लान्ति- चौरं, संभूमिधारागृहयन्त्रलतामण्डपकं, सदोलाप्रेङ्खं च स्यात् । काव्याभिनिवेशखिन्नस्य मनसस्तद्विनिर्वेदच्छेदायाज्ञामूकपरिजनं विजनं वा तस्य स्थानम् । अपभ्रंशभाषणप्रवणः परिचारकवर्गः, समागधभाषाभिनिवेशिन्यः परिचारिकाः । प्राकृतसंस्कृतभाषाविद् आन्तःपुरिकाः, मित्राणि चास्य सर्वभाषाविन्दि भवेयुः । सदःसं- स्कारविशुद्ध्यर्थं सर्वभाषाकुशलः, शीघ्रवाक्, चार्वक्षरः, इङ्गिता- कारवेदी, नानालिपिज्ञः, कविः, लाक्षणिकश्च लेखकः स्यात् । तद्- सन्निधावतिरात्रादिषु पूर्वोक्तानामन्यतर(मः) । स्वभवने हि भाषानियमं यथा प्रभुर्विदधाति तथा भवति । श्रूयते हि मगधेषु शिशुनागो नाम राजा; तेन दुरुच्चारानष्टौ वर्णानपास्य स्वान्तःपुर एव प्रवर्त्तितो नियमः, टकारादयश्चत्वारो मूर्द्धन्यास्तृतीयवर्जमूष्माणस्त्रयः षकारश्चेति । श्रूयते च सूरसेनेषु कुविन्दो नाम राजा; तेन परुषसंयोगाक्षर- वर्जमन्तःपुर एवेति समानं पूर्वेण । श्रूयते च कुन्तलेषु सातवाहनो नाम राजा; तेन प्राकृतभाषात्म- कमन्तःपुर एवेति समानं पूर्वेण । श्रूयते चोज्जयिन्यां साहसाङ्को नाम राजा; तेन च संस्कृतभाषा- त्मकमन्तःपुर एवेति समानं पूर्वेण । तस्य सम्पुटिका सफ़लकग्वटिका, समुद्गकः, सलेखनीकमषी- भाजनानि ताडिपत्राणि भूर्जत्वचो वा, सलोहकण्टकानि तालद- लानि, सुसम्मृष्टा भित्तयः, सततसन्निहिताः स्युः । “तद्धि काव्यवि- द्यायाः परिकरः” इत्याचार्याः । “प्रतिभैव परिकरः” इति याया- वरीयाः । “कविः प्रथममात्मानमेव कल्पयेत्; कियान्मे संस्कारः, क भाषा- विषये शक्तोऽस्मि, किंरुचिलोकः परिवृढो वा, कीदृशि गोष्ठ्यां


१ BC सम्भूतिधारागृह० २ B सौरसेनेषु. ३ BC कयिन्दो. ४ B omits च. ५ B फलक. ६ B समुद्गक. ७ A सलेखनी B सलेखनीयक.

कविरहस्ये दशमोऽध्यायः । ५१

विनीतः¹, कस्य वा चेतः संसजत इति बुद्ध्वा भाषाविशेषमाश्रयेत" इत्याचार्याः । "एकदेशकवेरियं नियमतन्त्रणा, स्वतन्त्रस्य पुनरेक- भाषावत्सर्वा अपि² भाषाः स्युः" इति यायावरीयः । देशविशेषव- शेन च भाषाश्रयणं दृश्यते । तदुक्तम्— "गौडाद्याः संस्कृतस्थाः परिचितरुचयः प्राकृते लाटदेश्याः सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादानकाश्च । आवन्त्याः पारियात्राः सह दशपुरजैर्भूतभाषां भजन्ते यो मध्येमध्यदेशं निवसति स कविः सर्वभाषानिषण्णः ॥" जानीयाल्लोकसाम्मत्यं कविः कुत्र ममेति च । असम्रमतं परिहरेन्मतेऽभिनिविशेत च ॥ जनापवादमात्रेण न जुगुप्सेत चात्मनि । जानीयात्स्वयमात्मानं यतो लोको निरङ्कुशः ॥ गीतसूक्तिरतिक्रान्ते स्तोता देशान्तरस्थिते । प्रत्यक्षे तु कवौ लोकः सावज्ञः सुमहत्यपि ॥ ³प्रत्यक्षकविकाव्यं च रूपं च कुलयोषितः । गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते ॥ इदं महाहासकरं विचेष्टितं परोक्तिपाटच्चरतारतोऽपि यत् । सदुक्तिरत्नाकरतां गतान्कवीन् कवित्वमात्रेण समेन निन्दति ॥ वचः स्वादु सतां लेह्यं लेशस्वाद्वपि कौतुकात् । बालस्त्रीहीनजातीनां काव्यं याति मुखान्मुखम् ॥ कार्यावसरसज्जानां परिव्राजां महीभुजाम् । काव्यं सद्यः कवीनां च भ्रमल्यह्ना दिशो दश ॥ पितुर्गुरोर्नरेन्द्रस्य सुतशिष्यपदातयः । अविविच्यैव काव्यानि स्तुवन्ति च पठन्ति च ॥


१ A विनीतोऽस्मि. २ B omits अपि. ३ B प्रत्यक्षं तु कविकाव्यं.

५२ काव्यमीमांसायाम्

किञ्च¹ नाङ्गीकृतं पठेद्यसमाप्तिस्तस्य फलमिति कविरहस्यम् । न नवीनमेकाकिनः पुरतः । स हि स्वीयं ब्रुवाणः कतरेण साक्षिणा जीयेत । न च स्वकृतिं बहु मन्येत² । पक्षपातो हि गुणदोषौ विप- र्यासयति । न च दृप्येत् । दर्पलवोऽपि सर्वसंस्कारानुच्छिनत्ति । प- रैश्च परीक्षयेत् । यदुदासीनः पश्यति न तदनुष्ठातेति प्रायो वादः । कविमानिनं तु छन्दोऽनुवर्त्तनेन³ रञ्जयेत् । कविम्मन्यस्य हि पुरतः सूक्तमरण्यरुदितं स्याद्विप्लवेत च । तदाह— "इदं हि वैदग्ध्यरहस्यमुत्तमं पठेन्न सूक्तिं कविमानिनः पुरः । न केवलं तां न विभावयत्यसौ स्वकाव्यबन्धेन विनाशयत्यपि ॥” अनियतकालाः प्रवृत्तयो विप्लवन्ते तस्माद्दिवसं निशां च यामक्र- मेण चतुर्द्धा विभजेत् । स प्रातरुत्थाय कृतसन्ध्यावरिवस्यः सार- स्वतं सूक्तमधीयीत । ततो विद्यावसथे यथासुखमासीनः काव्यस्य विद्या उपविद्याश्चानुशीलयेदाप्रहरात् । न ह्येवंविधमन्यत्प्रतिभा- हेतुर्यथा प्रत्यग्रसंस्कारः । द्वितीये काव्यक्रियाम् । उपमध्याह्नं स्नाया- दविरुद्धं भुञ्जीत च । भोजनान्ते काव्यगोष्ठीं प्रवर्त्तयेत् । कदाचिच्च प्रश्नोत्तराणि भिन्दीत । काव्यसमस्याधारणा, मातृकाभ्यासः, चित्रा योगा इत्यायामत्रयम् । चतुर्थ एकाकिनः परिमितपरिषदो वा पूर्वा- ह्णभागविहितस्य काव्यस्य परीक्षा । रसावेशतः काव्यं विरचयतो न च विवेकी दृष्टिस्तस्मादनुपरीक्षेत⁴ । अधिकस्य त्यागो, न्यूनस्य पूरणम्, अन्यथास्थितस्य परिवर्त्तनं, प्रस्मृतस्यानुसन्धानं च । इत्यहीनम् । सायं सन्ध्यामुपासीत सरस्वतीं च । ततो दिवा विहितपरी- क्षितस्याभिलेखनमाप्रदोषात् । यावदार्त्ति श्रियमभिमन्येत । द्विती- यतृतीयौ साधु शयीत । सम्यक्स्वापो वपुषः परमारोग्याय । चतुर्थे सप्रयत्नं प्रतिबुध्येत । ब्राह्मे मुहूर्त्ते मनः प्रसीदत्तांस्तानर्थानध्य- क्षयति । इत्याहोरात्रिकम् ।

१ B omits किञ्च. २ B मन्येत्. ३ B छन्दानु. ४ B तस्मात्तदनु परीक्षयेत्. ५ A परीक्षकाः

कविरहस्ये दशमोऽध्यायः । ५३ चतुर्विधश्चासौ; असूर्यम्पश्यो, निष्षण्णो, दत्तावसरः, प्रायोजनि- कश्च [इति]। यो गुहागर्भभूमिगृहादिप्रवेशान्नष्ठिकवृत्तिः कवते असा- वसूर्यम्पश्यः। तस्य सर्वे कालाः। यः काव्यक्रियायामभिनिविष्टः कवते न च नैष्ठिकवृत्तिः स निष्षण्णः। तस्यापि त एव कालाः। यः सेवादिकमविरुन्धानः कवते स दत्तावसरः। तस्य कतिपये कालाः। 5 निशायास्तुरीयो यामार्द्धः। स हि सारस्वतो मुहूर्त्तः। भोजनान्तः। सौहित्यं हि स्वास्थ्यमुपस्थापयति। व्यवायोपरमः। यदार्त्तिविनिवृ- त्तिरेकमेकाग्रतायतनम्। याप्ययानयात्रा। विषयान्तरविनिवृत्तं हि चित्तं यत्र यत्र प्रणिधीयते तत्र² तत्र गडूचीलागं लगति। यदा यदा चात्मनः क्षणिकतां मन्यते स स काव्यकरणकालः। यस्तु 10 प्रस्तुतं किञ्चन संविधानकमुद्दिश्य कवते, स प्रायोजनिकः। तस्य ³प्रयोजनवशात्कालव्यवस्था। बुद्धिमदाहार्यबुद्ध्योरियं नियममुद्रा। औपदेशिकस्य पुनरिच्छैव। सर्वे कालाः सर्वाश्च नियममुद्राः। पुरुषवत् योषितोऽपि कवीभवेयुः। संस्कारो ह्यात्मनि समवैति, न स्त्रैणं पौरुषं वा विभागमपेक्षते। श्रूयन्ते दृश्यन्ते च⁴ राजपुत्र्यो महा- 15 मात्रदुहितरो गणिकाः कौतुकिभार्याश्च शास्त्रप्रहृत⁵बुद्धयः कवयश्च। सिद्धं च प्रबन्धमनेकादर्शगतं कुर्यात्। यदित्थं कथयन्ति— “निक्षेपो विक्रयो दानं देशत्यागोऽल्पजीविता। ⁶त्रुटिको वह्निरम्भश्च प्रबन्धोच्छेदहेतवः॥ दारिद्र्यं व्यसनासक्तिरवज्ञा मन्दभाग्यता। 20 दुष्टे द्विष्टे च विश्वासः पञ्च काव्यमहापदः॥” [इति] पुनः समापयिष्यामि, पुनः संस्करिष्यामि, सुहृद्भिः सह विवेच- यिष्यामीति कर्तुराकुलता राष्ट्रोपप्लवश्च प्रबन्धविनाशकारणानि। अहर्निशाविभागेन य इत्थं कवते कृती। एकावलीव तत्काव्यं सतां कण्ठेषु लम्बते॥ 25

१ Explained in A as डिबिकागमनं. २ B omits one यत्र and one तत्र. ३ C प्रयोजक०. ४ B omits च. ५ B प्रहि. ६ A त्रुटिमो.

५४ काव्यमीमांसायाम् यथा यथाऽभियोगश्च संस्कारश्च भवेत्कवेः । तथा तथा निबन्धानां तारतम्येन रम्यता ॥ मुक्तके कवयोऽनन्ताः सङ्घाते कवयः शतम् । महाप्रबन्धे तु कविरेको द्वौ दुर्लभास्त्रयः ॥ ५ अत्राह स्म¹—"बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते । अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ॥” [इति] रीतिं विचिन्त्य विगणय्य गुणान्विगाह्य शब्दार्थसार्थमनुसृत्य च सूक्तिमुद्राः । कार्यो निबन्धविषये विदुषा प्रयत्नः १० के पोतयन्त्ररहिता जलधौ प्लवन्ते ॥ लीढाभिधोपनिषदां सविधे बुधाना- मभ्यस्यतः प्रतिदिनं बहुदृश्वनोऽपि । किञ्चित्कदाचन कथञ्चन सूक्तिपाका- द्धक्तत्त्वमुन्मिषति कस्यचिदेव पुंसः ॥ १५ इत्यनन्यमनोवृत्तेर्निःशेषेऽस्य क्रियाक्रमे । एकपत्नीव्रतं धत्ते कवेर्देवी सरस्वती ॥ सिद्धिः सूक्तिषु सा तस्य जायते जगदुत्तरा । मूलच्छायां² न जानाति यस्याः सोऽपि गिरां गुरुः ॥ राजा कविः कविसमाजं विदधीत । राजनि कवौ सर्वो लोकः कविः २० स्यात् । स काव्यपरीक्षायै सभां कारयेत् । सा षोडशभिः स्तम्भै- ऋर्तुभिर्द्वारैरष्टभिर्मत्तवारणीभिरुपेता स्यात् । तदनुलग्नं राज्ञः केलि- गृहम् । मध्येसभां चतुःस्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका वेदिका । तस्यां राजासनम् । तस्य चोत्तरतः संस्कृताः कवयो निवि- शेरन् । बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते । २५ यस्त्वनेकत्र प्रवीणः स सङ्क्रम्य तत्र तत्रोपविशेत् । ततः परं वेदवि- द्याविदः प्रामाणिकाः पौराणिकाः स्मार्त्ता भिषजो मौहूर्त्तिका अन्ये- ऽपि तथाविधाः । पूर्वेण प्राकृताः कवयः; ततः परं नटनर्त्तकगायन- १ B omits स्म. २ B मूल्यच्छायां.

कविरहस्ये दशमोऽध्यायः । ५५

वादनवाग्जीवनकुशीलवतालावचरा अन्येऽपि तथाविधाः । पश्चि- मेनापभ्रंशिनः कवयः; ततः परं चित्रलेप्यकृतो माणिक्यबन्धका वैकटिकाः स्वर्णकारवर्द्धकिलोहकारा अन्येऽपि तथाविधाः । दक्षिणतो भूतभाषाकवयः; ततः परं भुजङ्गा गणिकाः प्लवकशौभिकजम्भक- मल्लाः शस्त्रोपजीविनोऽन्येऽपि तथाविधाः । तत्र यथासुखमासीनः काव्यगोष्ठीं प्रवर्त्तयेत् भावयेत्परीक्षेत च । वासुदेवसातवाहनशूद्रकसाहसाङ्कादीन्सकलान्सभापतीन्दानमाना- भ्यामनुकुर्यात् । तुष्टपुष्टाश्चास्य सभ्या भवेयुः, स्थाने च पारितो- षिकं लभेरन् । लोकोत्तरस्य काव्यस्य च यथार्हा पूजा कवेर्वा । अन्तरान्तरा च काव्यगोष्ठीं शास्त्रवादाननुजानीयात् । मध्वपि नाॅन- वदंशं स्वदते । काव्यशास्त्रविरतौ विज्ञानिष्वभिरमेत । देशान्तरा- गतानां च विदुषामैन(न्य)द्वारा सङ्गं कार(म)येदौचित्याद्यावस्थिति पूजां च । वृत्तिकामांश्चोपजंपेत् सङ्गृह्णीयाच्च । पुरुषरत्नानामेक एव राजोदन्वान्भाजनम् । राजचरितं च राजोपजीविनोऽप्यनुकुर्य्युः । राज्ञ एव ह्यसावुपकारो यद्राजोपजीविनां संस्कारः । महानगरेषु च काव्यशास्त्रपरीक्षार्थं ब्रह्मसभाः कारयेत् । तत्प- रीक्षोत्तीर्णानां ब्रह्मरथयानं पट्टबन्धश्च । श्रूयते चोज्जयिन्यां काव्य- कारपरीक्षा— “इह कालिदासमेण्ठावत्रामररूपसूरभारवयः । हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम् ॥” श्रूयते च पाटलिपुत्रे शास्त्रकारपरीक्षा— “अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः । वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजग्मुः ॥” इत्थं सभापतिर्भूत्वा यः काव्यानि परीक्षते । यशस्तस्य जगद्व्यापि स सुखी तत्र तत्र च ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे कविचर्या राजचर्या च दशमोऽध्यायः ॥


१ B वादनाज्जीवन. २ B वैगडिक. ३ B नानवरं दंशं. ४ B मन. ५ उपजयेत्. ६ A महाकाव्य.

५६ काव्यमीमांसायाम्

एकादशोऽध्यायः शब्दहरणम्। परप्रयुक्तयोः शब्दार्थयोरुपनिबन्धो हरणम्। तद्द्विधा परित्याज्य- मनुग्राह्यं च। तयोः शब्दहरणमेव तावत्पञ्चधा पदतः, पादतः, अर्द्धतः, वृत्ततः, प्रबन्धतश्च [इति]। “तत्रैकपदहरणं न दोषाय” इत्या- चार्याः। “अन्यत्र द्व्यर्थपदात्” इति यायावरीयः। तत्र श्लिष्टस्य श्लिष्टपदेन हरणम्— “दूराकृष्टशिलीमुखव्यतिकरान्नो किं किरातानिमा- नाराद्ध्यावृतपीतलोहितमुखान्किं वा पलाशानपि। पान्थाः केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम् ॥” यथा च—“मा गाः पान्थ प्रियां त्यक्त्वा दूराकृष्टशिलीमुखम्। स्थितं पन्थानमावृत्य किं किरातं न पश्यसि ॥” श्लिष्टपदैकदेशेन हरणम्— “नाश्चर्यं यदनार्याप्तावस्तप्रीतिरयं मयि। मांसोपयोगं कुर्वीत कथं क्षुद्रहितो जनः ॥” यथा च—“कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्तेऽधरः किं वा चुम्बनकारणाद्दयित नो वायौर्विकारादयम्। तस्मात्सुभ्रु सुगन्धिमाहितरसं स्निग्धं भजस्वादरा- न्मुग्धे मां सरसं ब्रुवन्निति तया गाढं समालिङ्गितः॥” श्लिष्टस्य यमकेन हरणम्—“हलमपारपयोनिधिविस्तृतं प्रहरता हलिना समराङ्गणे। निजयशश्च शशाङ्ककलामलं निरवधीरिताकुलमासुरम् ॥” यथा च—“दलयता विशिखैर्बलमुन्मदं निरवधीरिताकुलमासुरम्। दशसु दिक्षु च तेन यशः सितं निरवधीरिताकुलमासुरम् ॥”


१ A पुरः, २ V मुक्त्वा. ३ B चुंबनकारणादपि तनोर्वायोर्विकारादयं.

कविरहस्ये एकादशोऽध्यायः। ५७

श्लिष्टस्य प्रश्नोत्तरेण हरणम्— “यस्यां भुजङ्गवर्गः कर्णायतेक्षणं कामिनीवदनं च ” यथा च—“किं करोति कियत्कालं वेश्यावेश्मनि कामुकः। कीदृशं वदनं वीक्ष्य तस्याः कर्णायतेक्षणम्॥” यमकस्य यमकेन हरणम्— “वरदाय नमो हरये पतति जनो यं स्मरन्नपि न मोहरये। बहुशश्चक्रन्द हतां मनसि दितिर्येन दैत्यचक्रं दहता॥” यथा च—चक्रं दहतारं चक्रन्द हतारम्। खड्गेन तवाजौ राजन्नरिनारी॥ एवमन्योन्यसमन्वये¹ऽन्येऽपि भेदाः। नन्विदमुपदेश्यमेव न भवति। यदित्थं कथयन्ति—“पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यति। अपि पुत्रेषु पौत्रेषु वाक्चौर्यं च² न शीर्यति॥” “अयमप्रसिद्धः प्रसिद्धिमानहम्, अयमप्रतिष्ठः प्रतिष्ठावानहम्, अप्रक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम, गुडूचीवचनोऽयं मृद्वी- कावचनोऽहम्, अनादृतभाषाविशेषोऽयमहमादृतभाषाविशेषः, प्र- शान्तज्ञातृकमिदं, देशान्तरितकर्त्तृकमिदम्, उ³च्छ(त्स)न्ननिबन्धन- मूलमिदं, म्लेच्छितकोपोनिबन्धनमूलमिदमित्येवमादिभिः कारणैः शब्दहरणेऽर्थहरणे वा⁴भिरमेत” इत्यवन्तिसुन्दरी। “त्रिभ्यः पदेभ्यः प्रभृति त्वश्लिष्टेभ्यो हरणम्” इत्याचार्याः। यथा—“स पातु वो यस्य जटाकलापे स्थितः शशाङ्कः स्फुटहारगौरः। नीलोत्पलानामिव नालपुञ्जे निद्रायमाणः शरदीव हंसः॥” यथा च—“स पातु वो यस्य हतावशेषा- स्तत्तुल्यवर्णाञ्जनरञ्जितेषु। लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु॥”


१ B अन्योन्यसंबन्धादन्येपि भेदाः. २ V न विशीर्यते. ३ V उत्सन्न. ४ A चा.

५८ काव्यमीमांसायाम् “न” इति यायावरीयः । उल्लेखवाग्वदसन्दर्भः परिहरणीयः प्रत्यभिज्ञायातः पादोऽपि । तस्यापि साम्येन किञ्चन दुष्टं स्यात् । यथा- “इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ । उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥” यथा च— “इत्युक्तवानुक्तिविशेषरम्यं रामानुजन्मा विरराम मानी । सङ्क्षिप्तमाप्तावसरं च वाक्यं सेवाविधिज्ञैः पुरतः प्रभूणाम् ॥” उल्लेखवान्यथा- “नमः संसारनिर्वाणविषामृतविधायिने । सप्तलोकोर्मिभङ्गाय शङ्करक्षीरसिन्धवे ॥” यथा च— “प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने । नमोऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे ॥” “पाद एवान्यथात्वकरणकारणं न हरणम्, अपि तु स्वीकरणम्” इत्याचार्याः । यथा- “त्यागाधिकाः स्वर्गमुपाश्रयन्ते त्यागेन हीना नरकं व्रजन्ति । न त्यागिनां किञ्चिदसाध्यमस्ति त्यागो हि सर्वव्यसनानि हन्ति ॥” यथा च— “त्यागो हि सर्वव्यसनानि हन्ती- त्यलीकमेतद्भुवि सम्प्रतीतम् । जातानि सर्वव्यसनानि तस्या- स्त्यागेन मे मुग्धविलोचनायाः ॥” तदिदं स्वीकरणापरनामधेयं हरणमेव । तद्वदूर्द्धमयोगेऽपि । यथा— १ AB नाप्रत्यभिज्ञायातः.

कविरहस्ये एकादशोऽध्यायः । ५९ “पादस्ते नरवर दक्षिणे समुद्रे पादोऽन्यो हिमवति हेमकूटलग्ने । आक्रामत्यलघु महीतलं त्वयीत्थं भूपालाः प्रणतिमपास्य किन्नु कुर्युः ॥” यथा चोत्तरार्द्धे¹—“इत्थं ते विधृतपदद्वयस्य राज- न्नाश्चर्यं कथमिव सीधनी न भिन्ना ॥” एवं व्यस्तार्द्धप्रयोगेऽपि² । यथा— “तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति । अभ्युद्गते³ सकलधामनिधौ⁴ तु तस्मि- न्निन्दोः सिताभ्रशकलस्य च को विशेषः ॥” यथा च—“तत्तावदेव शशिनः स्फुरितं महीयो यावन्न किञ्चिदपि गौरतरा हसन्ति । ताभिः पुनर्विहसिताननपङ्कजाभि- रिन्दोः सिताभ्रशकलस्य च को विशेषः ॥” पादे⁵ एवान्यथात्वकरणं न स्वीकरणं पादोनहरणं वा । यथा— “अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासापह्नवने चैव दिव्या सम्भवति क्रिया ॥” यथा चोत्तरार्द्धे— “तन्वङ्गी यदि लभ्येत दिव्या सम्भवति क्रिया ।” यथा वा—“यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥” यथा चोत्तरार्द्धे—“कुक्षौ समुद्राश्चत्वारः स सहेत स्वरानलम् ॥” भिन्नार्थानां तु पादानामेकेन पादेनान्वयनं कवित्वमेव । यथा— ———————————————————————————————————————————— १ B चोत्तरार्द्धं. २ A प्रयोगोपि. ३ B अभ्युद्यते. ४ V S तुहिनधामनिधौ. ५ A पादा.

६० काव्यमीमांसायाम् “किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित्। भ्रमति विहगसार्थानित्थमापृच्छमानो रजनिविरहभीतश्चक्रवाको वराकः॥” यथा च—“जयति सितविलोल्व्यालयज्ञोपवीती घनकपिलजटान्तर्भ्रान्तगङ्गाजलौघः। अविदितमृगचिह्नामिन्दुलेखां दधानः परिणतशितिकण्ठश्यामकण्ठः पिनाकी॥” यथा च—“कुमुदवनमपश्री श्रीमदम्भोजखण्डं त्यजति मद²मुलूकः प्रीतिमांश्चक्रवाकः। उदयमहिमरश्मिर्याति शीतांशुदस्तं हतविधिललितानां ही विचित्रो विपाकः॥” यथा³ च—“किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तर्भ्रान्तगङ्गाजलौघः। निवसति स⁵ पिनाकी यत्र यायां त⁴दस्मिन् हतविधिललितानां ही विचित्रो विपाकः॥” पादोनवतकतिपयपदप्रयोगोऽपि। यथा— “या व्यापारवती रसान् रसयितुं काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती। ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम्॥” यथा च चतुर्थपादे— “श्रान्ता नैव च लब्धमुत्पलदृशां प्रेम्णः समानं सुखम्॥” पादैकदेशग्रहणमपि पदैकदेशोपलक्षणपरम्। यथा— “असकलहसितत्वात्क्षालितानीव कान्त्या मुकुलितनयनत्वाद्व्यक्तकर्णोत्पलानि। १ शितिकण्ठः. २ V मुद. ३ A omits यथा च. ४ B न. ५ V सर्वशं.