काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 107, कुल 381 में से
संदर्भ में पढ़ें५४ काव्यमीमांसायाम् यथा यथाऽभियोगश्च संस्कारश्च भवेत्कवेः । तथा तथा निबन्धानां तारतम्येन रम्यता ॥ मुक्तके कवयोऽनन्ताः सङ्घाते कवयः शतम् । महाप्रबन्धे तु कविरेको द्वौ दुर्लभास्त्रयः ॥ ५ अत्राह स्म¹—"बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते । अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ॥” [इति] रीतिं विचिन्त्य विगणय्य गुणान्विगाह्य शब्दार्थसार्थमनुसृत्य च सूक्तिमुद्राः । कार्यो निबन्धविषये विदुषा प्रयत्नः १० के पोतयन्त्ररहिता जलधौ प्लवन्ते ॥ लीढाभिधोपनिषदां सविधे बुधाना- मभ्यस्यतः प्रतिदिनं बहुदृश्वनोऽपि । किञ्चित्कदाचन कथञ्चन सूक्तिपाका- द्धक्तत्त्वमुन्मिषति कस्यचिदेव पुंसः ॥ १५ इत्यनन्यमनोवृत्तेर्निःशेषेऽस्य क्रियाक्रमे । एकपत्नीव्रतं धत्ते कवेर्देवी सरस्वती ॥ सिद्धिः सूक्तिषु सा तस्य जायते जगदुत्तरा । मूलच्छायां² न जानाति यस्याः सोऽपि गिरां गुरुः ॥ राजा कविः कविसमाजं विदधीत । राजनि कवौ सर्वो लोकः कविः २० स्यात् । स काव्यपरीक्षायै सभां कारयेत् । सा षोडशभिः स्तम्भै- ऋर्तुभिर्द्वारैरष्टभिर्मत्तवारणीभिरुपेता स्यात् । तदनुलग्नं राज्ञः केलि- गृहम् । मध्येसभां चतुःस्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका वेदिका । तस्यां राजासनम् । तस्य चोत्तरतः संस्कृताः कवयो निवि- शेरन् । बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते । २५ यस्त्वनेकत्र प्रवीणः स सङ्क्रम्य तत्र तत्रोपविशेत् । ततः परं वेदवि- द्याविदः प्रामाणिकाः पौराणिकाः स्मार्त्ता भिषजो मौहूर्त्तिका अन्ये- ऽपि तथाविधाः । पूर्वेण प्राकृताः कवयः; ततः परं नटनर्त्तकगायन- १ B omits स्म. २ B मूल्यच्छायां.