काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
DevanagariSanskritpublished616 पृष्ठ
पृष्ठ 196, कुल 616 में से
संदर्भ में पढ़ेंपृष्ठ 196
प्रमाणान्तरात् सिद्धे “लोहितोष्णीषा ऋत्विजः प्रचरन्ति” इत्यत्र लोहितोष्णीषत्वमात्रं विधेयं हवनस्यान्यतः सिद्धेः “दध्ना जुहोति” इत्यादौ दध्यादेः करणत्वमात्रं विधेयम् ॥ क्वचिदुभयविधिः क्वचित्त्रिविधिरपि यथा ‘रक्तं पटं वयः’ इत्यादौ एकविधिर्द्विविधिस्त्रिविधिर्वा । ततश्च ‘यदेव विधेयं तत्रैव तात्पर्यम्’ इत्युपात्तस्यैव शब्दस्यार्थे तात्पर्यं न तु प्रतीतमात्रे एवं हि ‘पूर्वो धावति’ इत्यादावपराद्यथपि क्वचित्ता- त्पर्यं स्यात् ।