काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
DevanagariSanskritpublished616 पृष्ठ
पृष्ठ 377, कुल 616 में से
संदर्भ में पढ़ेंपृष्ठ 377
एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम् । उदाहरणम् सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥ ३५९ ॥ तदेवं पञ्चधा मतः ॥ ८२ ॥ अर्थे सत्यर्थभिन्नानां वर्णानां [सा पुनः श्रुतिः । यमकम् । समरसमरसोयमित्यादावेकेषामर्थवत्त्वे अन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यते वक्तुम् इति अर्थे सतीत्युक्तम् । सेति सरोरस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता ।