काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 38, कुल 616 में से
संदर्भ में पढ़ेंॐ नमः शिवाय । काव्यप्रकाश- कारिकावली नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ १ ॥ काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ २ ॥ शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ ३ ॥ तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि । इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिबुधैः कथितः ॥४॥ अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् । शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ ५ ॥ स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा । वाच्यादयस्तदर्थाः स्युस्तात्पर्यार्थोऽपि केषुचित् ॥ ६ ॥ सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते । साक्षात्संकेतितं योर्थमभिधत्ते स वाचकः ॥ ७ ॥ सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा । स मुख्योऽर्थस्तत्र मुख्यो व्यापारोस्याभिधोच्यते ॥ ८ ॥ मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ ९ ॥ स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ १० ॥