काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 39, कुल 616 में से
संदर्भ में पढ़ें२ सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा । विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात्साध्यवसानिका ॥ ११ ॥ भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा । गौणौ शुद्धौ च विज्ञेयौ लक्षणा तेन षड्विधा ॥ १२ ॥ व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने । तच्च गूढमगूढं वा तदेषा कथिता त्रिधा ॥ १३ ॥ तद्भूलाक्षणिकस्तत्र व्यापारो व्यञ्जनात्मकः । यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ १४ ॥ फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया । नाभिधा समयाभावाद्धेत्वभावान्न लक्षणा ॥ १५ ॥ लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो । न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः ॥ १६ ॥ एवमप्यनवस्था स्याद् या मूलक्षयकारिणी । प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ १७ ॥ ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम् । विशिष्टे लक्षण नैवं विशेषाः स्युस्तु लक्षिते ॥ १८ ॥ अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ १९ ॥ तद्युक्तो व्यञ्जकः शब्दो यत्सोऽर्थान्तरयुक् तथा । अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥ २० ॥ अर्थाः प्रोक्ताः पुरा तेषामर्थव्यञ्जकतोच्यते । वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ॥ २१ ॥ प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम् । योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥ २२ ॥ शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः । अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ॥ २३ ॥