काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 40, कुल 616 में से
संदर्भ में पढ़ेंअविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ । अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ॥ २४ ॥ विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः । कोप्यलक्ष्यक्रमव्यङ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः ॥ २५ ॥ रसभावतदाभासभावशान्त्यादिक्रमः । भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥ २६ ॥ कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ २७ ॥ विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ २८ ॥ शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ २९ ॥ रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ ३० ॥ निर्वेदग्लानिशङ्काख्यास्तथासूया मदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ ३१ ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ ३२ ॥ सुप्तं प्रबोधोमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ ३३ ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ ३४ ॥ निर्वेदस्थायिभावोस्ति शान्तोपि नवमो रसः । रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ॥ ३५ ॥ भावः प्रोक्तस्तदाभासा अनौचित्यप्रवर्त्तिताः । भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥ ३६ ॥