काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 46, कुल 616 में से
संदर्भ में पढ़ें९ सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः । दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥ १०२ ॥ सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ १०३ ॥ मालादीपकमाद्यं चेद्यथोत्तरगुणावहम् । नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥ १०४ ॥ उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ॥ १०५ ॥ शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् । निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ १०६ ॥ वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः । क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ॥ १०७ ॥ विशेषोक्तिरखण्डेषु कारणेषु फलावचः । यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ १०८ ॥ सामान्यं वा विशेषो वा तदन्येन समर्थ्यते । यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ १०९ ॥ विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः । जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः ॥ ११० ॥ क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश । स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥ १११ ॥ व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ ११२ ॥ विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः । परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः ॥ ११३ ॥ प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । तद्भाविकं काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ ११४ ॥