काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 47, कुल 616 में से
संदर्भ में पढ़ेंपर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः । उदात्तं वस्तुनः संपत् महतां चोपलक्षणम् ॥ ११५ ॥ तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ स त्वन्यो युगपद् या गुणक्रियाः ॥ ११६ ॥ एकं क्रमेणानेकस्मिन् पर्यायोऽन्यस्ततोन्यथा । अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ॥ ११७ ॥ विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः । व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥ ११८ ॥ किंचित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते । तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ ११९ ॥ यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात् क्रियया तु परस्परम् ॥ १२० ॥ वस्तुनोर्जननेन्योन्यमुत्तरश्रुतिमात्रतः । प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥ १२१ ॥ असकृद् यदसंभाव्यमुत्तरं स्यात् तदुत्तरम् । कुतोपि लक्षितः सूक्ष्मोप्यर्थोऽन्यस्मै प्रकाश्यते ॥ १२२ ॥ धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते । उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥ १२३ ॥ भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥ १२४ ॥ समाधिः सुकरं कार्यं कारणान्तरयोगतः । समं योग्यतया योगो यदि संभावितः क्वचित् ॥ १२५ ॥ क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् । कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ॥ १२६ ॥ गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये । क्रमेण च विरुद्धे यत् स एष विषमो मतः ॥ १२७ ॥