काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 48, कुल 616 में से
संदर्भ में पढ़ें११ महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् । आश्रयाश्रयिणौ स्यातां तनुत्वेप्यधिकं तु तत् ॥ १२८ ॥ प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥ १२९ ॥ समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ १३० ॥ स्थाप्यतेपोह्यते वापि यथापूर्वं परं परम् । विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ १३१ ॥ यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः । स्मरणं भ्रान्तिमानन्यसंवित्तुल्यदर्शने ॥ १३२ ॥ आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥ १३३ ॥ प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥ १३४ ॥ विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः । एकात्मा युगपद्वृत्तिरेकस्यानेकगोचरा ॥ १३५ ॥ अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः । तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥ १३६ ॥ स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् । वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ १३७ ॥ तद्रूपाननुहारश्चेदस्य तत् स्यादतद्गुणः । यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ १३८ ॥ तथैव यद्विधीयेत स व्याघात इति स्मृतः । सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ १३९ ॥ अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः । एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ १४० ॥