खण्डनखण्डखाद्यम् (महाकवि श्रीहर्ष - अद्वैत न्याय-खण्डन एवं तत्त्व-निर्णय सटीक)
Khandanakhandakhadya of Mahakavi Sriharsha with Commentary
महाकवि श्रीहर्ष द्वारा
पृष्ठ 608, कुल 610 में से
संदर्भ में पढ़ें५८६ खण्डनखण्डखाद्य कारिकाः संख्या कारिकाः पृष्ठ-संख्या ४७. वाच्यान्यथोपपत्तिर्वा त्याज्यो वा दृष्टताग्रहः । न ह्येकत्र समावेशश्छायातपवदेतयोः ॥ ४२ ४८. विधिजः प्रत्ययोऽन्योऽयं व्यतिरेकासमर्थनः । नैवं चेदपराद्धं ते किमन्यापोहवादिना ॥ २३९ ४९. व्याघातो यदि शङ्काऽस्ति न चेच्छङ्का ततस्तराम् । व्याघातावधिरशङ्का तर्कः शङ्कावधिः कुतः ॥ २७१ ५०. शब्दार्थनिर्वचनखण्डनया नयन्तः सर्वत्र निर्वचनभावमखर्वगर्वान् । धीरा यथोक्तमपि कीरवदेतदुक्त्वा लोकेषु दिग्विजयकौतुकमातनुध्वम् ॥ २ ५१. समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः । का तदस्तु गतिस्तत्तद्बुद्धीव्यवहारयोः ॥ २१५ ५२. सर्वत्र सत्ताऽसत्ता वा नियमेऽन्यानपेक्षया । नियामकाद्धि भावानां क्वाचित्कत्वस्य सम्भवः ॥ २४६ ५३. सुदूरधावनश्रान्ता- बाधबुद्धिपरम्परा । विनिवृत्ताऽद्वयाम्नायैः पाष्णिग्राहैर्विजीयते ॥ ५६ ५४. सोऽपि वा धीविशेषः किं स्वीकार्यस्तद्वियं विना । एवञ्च सोऽपि सोऽपीति नान्तः सोपानधावने ॥ २१५ ५५. हेत्वाद्यभावसार्वज्ञ्ये सर्वं पक्षतयाऽऽस्थिते । किञ्चित्तु त्यजता दत्ता सैव द्वारद्वयश्रुतेः ॥ ५९