खण्डनखण्डखाद्यम् (महाकवि श्रीहर्ष - अद्वैत न्याय-खण्डन एवं तत्त्व-निर्णय सटीक)
Khandanakhandakhadya of Mahakavi Sriharsha with Commentary
महाकवि श्रीहर्ष द्वारा
पृष्ठ 607, कुल 610 में से
संदर्भ में पढ़ेंखण्डनखण्डखाद्य-कारिका ३८५ संख्या कारिकाः पृष्ठ-संख्या ३६. पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः । बाधनादुपजीव्येन बिभेति न मनागपि ॥ ८९२ ३७ पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ । हेतुतत्त्वबहिर्भूत-सत्त्वासत्त्वकथा वृथा ॥ ३८ प्रत्येयव्यस्य वैचित्र्यं प्रत्ययोल्लेखसाधिकम् । धियं निवेश्य लुम्पद्भी भङ्गं साक्ष्येव यच्छति ॥ ४३४ ३९. प्रवृत्तेनाप्यनौचित्यमूलं येन न ल्लूयते । तत्रानौचित्यसाम्राज्यं वैपरीत्यात्तु नात्र तत् ॥ ६१ ४०. प्रश्नस्य यः स्याद्विषयः स वाच्यो वाचा तया चैष भवेन्निरुक्तः । इयं त्वयाऽप्यास्थितमेतयैव गिरा स्वपृच्छाविषयस्य वक्त्रा ॥ ४१ ४१. प्राप्तोपाधिनिगम्यत्वप्रमाणापगमैर्भवेत् । अनवस्थितिमाधातुरचिकित्स्या त्रिदोषता ॥ ७४ ४२. प्राचोत्तरस्य नियमे प्राच एव न तेन किम् । अनाद्यनन्तयोर्नैवं विनिगन्ता प्रवाहयोः ॥ ४४८ ४३. बाधेऽदृष्टेऽन्यसाम्यात् किं दृष्टेऽन्यदपि बाध्यताम् । क्व ममत्वं मुमुक्षूणामनिर्वचनवादिनाम् ॥ १८६ ४४. मानापनोदनविनोदनते गिरीशे भासेव सङ्कुचितयोरुचितं तदिन्दोः । भेत्तुं भवानिशचितं दुरितं भवानि ! नम्रीभवानि घनमङ्घ्रिसरोजयोस्ते ॥ १ ४५. यथाविधं यं विषयं निजस्य प्रश्नस्य निर्वक्ति परो ययोक्त्या । वाच्यस्तथैवोत्तरवादिनाऽपि तथैव वाचा स तथाविधोऽर्थः ॥ ४१६ ४६. रूपान्तरेण निर्दिश्य तच्चेतदभिधीयते । ताद्रूप्येण तथापि स्यात् सैव सव्यभिचारता ॥ १३२