किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 11, कुल 707 में से
संदर्भ में पढ़ें[ ३ ]
भङ्गायेन्द्रस्य गन्धर्वाणां सविधेऽप्सरसां प्रेषणम् ।
सप्तमसर्गे—गन्धर्वैः सहाऽप्सरसामिन्द्रकीलपर्वते विलासपूर्वकं गमनम् ।
अष्टमसर्गे—गन्धर्वाणामप्सरसां च कुसुमावचायादिललितकेलिवर्णनम् ।
नवमसर्गे—सन्ध्या-चन्द्रोदय-सुरतक्रीडा-प्रभातवर्णनम् ।
दशमसर्गे—अर्जुनस्य प्रलोभनायाऽप्सरसां विलासप्रदर्शनम्, तस्य नैष्फल्यं च ।
एकादशसर्गे—वृद्धविप्रवेषिणेन्द्रेण सहाऽर्जुनस्य संवादः । परीक्षानन्तरमर्जुनस्य तपसि दृढनिष्ठादर्शनेन प्रसन्नेन्द्रस्य स्वस्वरूपदर्शनानन्तरं शिवारराधनायार्जुनं प्रत्युपदेशः ।
द्वादशसर्गे—अर्जुनस्य कठोरतपसा शिवारोधनम् । तापसैः शिवं प्रति तद्वर्णनम् । किरातवेषिणः शिवस्य शूकररूपस्य मूकदानवस्य चार्जुनसमीपे प्रयाणम् ।
त्रयोदशसर्गे—शिवस्याऽर्जुनस्य च युगपच्छरप्रक्षेपेणाऽर्जुनहननार्थमागतस्य मूकदानवस्य वधः । तच्छरीराच्छरग्रहणार्थमुद्यतमर्जुनं प्रति शिवदूतकिरातस्याभिक्षेपवचः ।
चतुर्दशसर्गे—अर्जुनस्य च तत्प्रत्युत्तरप्रदानम् । ततः कार्तिकेयाधिष्ठितया किरातसेनयाऽन्तः किरातपतिना शिवेन च सममर्जुनस्य भीषणयुद्धवर्णनम् ।
पञ्चदशसर्गे—किराताऽर्जुनयोश्चित्रयुद्धवर्णनम् ।
षोडशसर्गे—किरातपतेः समरकौशलमवेक्ष्याऽर्जुनस्य चेतसि नानाविधा वितर्काः । द्वयोरसाधारणभीषणयुद्धवर्णनम् ।
सप्तदशसर्गे—किरातसेनया सममर्जुनस्य युद्धवर्णनम् । शङ्करार्जुनयोस्तुमुलसंग्रामवर्णनम् ।
अष्टादशसर्गे—पराजितस्याऽप्यर्जुनस्य दृढनिष्ठादर्शनेन प्रीतस्य शिवस्य तं प्रति स्वस्वरूपसंदर्शनम् । एवं च तस्य अर्जुनाय पाशुपतास्त्रप्रदानं धनुर्वेदप्रदानं च । तस्मै इन्द्रादिदेवानाञ्च स्वस्वास्त्रप्रदानम् । लब्धतः सफलमनोरथस्यार्जुनस्य युधिष्ठिरसमीपे गमनञ्च ।