भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 10, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 10

[ २ ]

र्जुनस्य धैर्येण दृढतया च प्रसन्नः शिवः प्रत्यक्षीभूय तस्मै धनुर्वेदशिक्षणपूर्वकं पाशुपतास्त्रं च ददाति। इन्द्रादिभ्यो देवेभ्यश्च शस्त्रास्त्रप्राप्त्या कृतार्थोऽर्जुनो भ्रातृसकाशं गच्छति। परिमितमेतद्वृत्तमुपजीव्याऽष्टादशसर्गसंमितं-नीति-सुभाषितादिसमलंकृतं पूर्वकविभिरक्षुण्णे चित्रकाव्ये चाद्भुतनैपुण्यं समाविश्य भारविर्महाकविः चित्ताकर्षकं किरातार्जुनीयं महाकाव्यं प्रणिनाय।

किरातार्जुनीयस्य नायकरसादिविवरणम्।

किरातार्जुनीयस्य नायको धीरोदात्तोऽर्जुनः। प्रतिनायकश्च किरातपतिः शंकरः। उभावालम्बनविभावौ। दूतमुखोच्चारितानि वाक्यान्युद्दीपनानि। नायक-प्रतिनायकयोः धनुराकर्षणादयोऽनुभावाः। धृत्यादयो व्यभिचारिभावाः। उत्साहः स्थायी भावः। वीररसोऽङ्गी। शृङ्गारादिरसा अङ्गरसाः। रीतिः पाञ्चाली वैदर्भी च। गुणः प्रसादो माधुर्यं च। किरातप्रहितो दूतो निसृष्टार्थः। दिव्यास्त्रलाभः प्रयोजनम्।

किरातार्जुनीयस्य कथासारः।

प्रथमसर्गे—युधिष्ठिरसमीपे द्वैतवने वणिग्वेषधारिणो वनेचरस्य मुखाद् दुर्योधनस्य शासनकौशलं श्रुत्वा युधिष्ठिरं युद्धार्थं उत्तेजयितुं द्रौपद्या ओजोगुणपूर्णमुपालम्भनं च।

द्वितीयसर्गे—भीमसेनस्य प्रशंसापूर्वकं द्रौपदीवचसः समर्थनम्। युधिष्ठिरस्य सान्त्वनापूर्वकं तयोः प्रबोधनम्। अत्रान्तरे महामुनेर्व्यासस्यागमनम्।

तृतीयसर्गे—युद्धे जयलाभार्थमिन्द्रकीलशैलेऽर्जुनस्य तपश्चरणार्थं व्यासस्योपदेशः। तस्य शिवाराधनार्थं सविध्यर्जुनं प्रति विशेषोपदेशः, मार्गप्रदर्शनार्थमेकस्य गुह्यकस्योपस्थापनं च। गमनकाले द्रौपद्या अर्जुनं प्रत्युपदेशवाक्यानि। यक्षेण सहाऽर्जुनस्येन्द्रकीलपर्वतं प्रति प्रस्थानं च।

चतुर्थसर्गे—शरदागमेन क्षेत्रादीनां शोभासंवर्धनम्। अर्जुनस्य हिमालयवर्णनम्।

पञ्चमसर्गे—हिमालयस्य रुचिरशोभावर्णनम्।

षष्ठसर्गे—अर्जुनस्येन्द्रकीलपर्वत आरोहणवर्णनम् तस्य तपश्चरणं च। तत्तपो-