किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 9, कुल 707 में से
संदर्भ में पढ़ेंभूमिका
शेषराजशर्मा रेग्मीः
महाकविर्भारविस्तत्काव्यं किरातार्जुनीयं च
संस्कृतभाषायां महाकविर्भारविरतिशयलोकप्रियः। बृहत्त्रय्यां किरातार्जुनीये, शिशुपालवधे नैषधीयचरिते च भारवे रचना गरिष्ठा, परवर्तिकवीनां पवित्रदर्शिकामिव, मनोहरतमा, गाम्भीर्यांशपरिपूरिता नारिकेलफलसम्मितेति च संस्तूयते। एवमेव परमप्रथितेषु पञ्चस्वपि काव्येषु—रघुवंश-कुमारसंभव-किरातार्जुनीय-शिशुपालवध-नैषधीयचरितेषु महाकविर्भारविः कालिदासकोटौ परिगणितः।
यथा—६३४तमे खृष्टाब्दे उत्कीर्णे ऐहोळशिलालेखे— “स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः”।
अस्य पद्यार्धस्य दर्शनात् खृष्टस्य चतुस्त्रिंशदधिकषट्शततम वर्षपूर्वं तत्समय-स्तावत एव समयात् भारविः कालिदासकोटौ परिगणित आसीदित्यवगम्यते। ‘भारवेरर्थगौरवम्’ इत्यनुसारं भारविवाक्यमर्थगौरवपरिपूर्णा स्वल्पैरपि शब्दैर्विपुल-गूढार्थसंग्राहिकेति प्रतीयते। कालिदासापेक्षया माधुर्यगुण एवेषन्न्यूना तद्वाणी, परं रसभाव-शब्दालंकारगुणपरिपूरितेति विश्रुतिः।
द्यूते पराजितं द्वैतवने भ्रातृभिर्भार्यया च समं स्थितं युधिष्ठिरं दुर्योधनस्य शासनपद्धतेः परिज्ञानाय प्रेषितो वर्णिवेषधारी वनेचरो दुर्योधनस्य शासनकुशलतां वर्णयति। श्रुत्वैतद् द्रौपदी युद्धार्थं युधिष्ठिरं प्रेरयति। भीमसेनोऽथ प्रशंसापूर्वकं तद्वचः समर्थयत। अथाऽन्तरे व्यास आगत्य युद्धे जयलाभार्थमिन्द्रकीले तपश्चरणार्थमर्जुनं सविधि विद्यामुपदिशति। तस्मिन् पर्वते भ्रातो मार्गदर्शनायानेकान् गुह्यकान् चोपस्थापयति। अर्जुन इन्द्रकीलपर्वतं गत्वा तपश्चरति। मूकदानवोऽर्जुनं हन्तुं शूकरवेषेणागच्छति। किरातपतेः शिवस्याऽर्जुनस्य च युगपदस्त्रप्रहारेण विद्धप्राणत्वेन स भूमि पतितः। तच्छरीरान्तर्गतशरहरणार्थं गतस्यार्जुनस्य किरातपुरु-षस्य किरातस्य विवदेते। अन्ततो गत्वा कार्त्तिकेयाधिष्ठितस्य शिवस्य शरेणाऽर-ण्यचरा किरातपतेः शिवेण चार्जुनस्य च सह तुमुलं युद्धं भवति। पराजितोऽर्जुनस्त-
१ कि० भू०