भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 132, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 132

९४ | किरातार्जुनीयम् । | [ द्वितीयः

भावार्थः—इस तरह मन के क्षोभ को दर्शाया है जिसने और क्रोध से भरा है दिल जिसका ऐसे वायुपुत्र (भीमसेन) को, महाराज युधिष्ठिर अपने कोमल वचनों से ठण्डा करने के लिए प्रस्तुत हुए, जैसे कोई मतवाले हाथी को वश में लाने के लिये उपाय करे ॥ २५ ॥

प्रथमं तावत्स्तुत्यादिभिः प्रसादयति—

अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे । विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥ २६ ॥

अपवर्जितेति । विप्लवः प्रमाणबाधः । अन्यत्र बाह्यमलसंक्रमः । सोऽपवर्जितो यस्य तस्मिन्नपवर्जितविप्लवे । शुचौ सौशब्द्यं लोहशुद्धिश्च शुचित्वम् । तद्वतीत्यर्थः । अत एव हृदयग्राहिणि मनोरमे मङ्गलास्पदे । एकत्र हितार्थप्रतिपादकत्वादन्यत्र मङ्गलवस्तुत्वाच्च श्रेयस्करे । 'रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् । गुरूनग्निं तथा सूर्यं प्रातः पश्येत्सदा बुधः ॥' इति पुराणवचनात् । तव गिरां विस्तरे वाक्यप्रपञ्चे । 'प्रथने वावशब्दे' इति घञ्प्रतिषेधात् 'ऋदोरप्' इत्यप् । अत एव 'विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः' इत्यमरः । मतिस्त्वद्बुद्धिरादर्शे दर्पण इव । 'दर्पणे मुकुरादर्शौ' इत्यमरः । विमला विशदाऽभिदृश्यते । वाग्वैशद्यादेव मतिवैशद्यमनुमीयते तत्पूर्वं कत्वात्सत्येत्यर्थः ॥ २६ ॥

अन्वयः—[अ]पवर्जितविप्लवे, शुचौ, हृदयग्राहिणि, मङ्गलास्पदे तव गिरां, विस्तरे (तव), विमला मतिः, आदर्श, इव, अभिदृश्यते ॥ २६ ॥

सुधाअपवर्जितविप्लवे = प्रमाणयुक्ते, शुचौ = शब्दसौष्ठवे, हृदयग्राहिणि = मनोहरे, मङ्गलास्पदे = विजयप्रदे, तव भीमस्य, गिराम् = वाचाम्, विस्तरे = प्रपञ्चे तव, विमला = निर्मला, मतिः बुद्धिः, अपवर्जितविप्लवे = त्यक्तबाह्यमले, निर्मले इत्यर्थः । शुचौ = रजःकाष्ठकोष्ठादिविरहीकृते, पूजादौ स्पर्शायोग्यत्वात् विरहय्यामित्थावेति शेषः । हृदयग्राहिणि = हृदयव्यूर्ध्वावयवप्रतिबिम्बवति वा; दर्शनेन मनोहरे, मङ्गलास्पदे = कल्याणभाजने, यात्रायां प्रभाते च तद्दर्शनस्य मङ्गलजनकत्वात् । विस्तरे = असङ्क्षिप्ते, महतीत्यर्थः, यत्र सम्यक् कर्णनासागात्रोऽवलोक्यते तादृशे, आदर्श = दर्पणे, काचपदार्थे, इव, अभिदृश्यते = अवलोक्यते । यथा दर्पणे मुखमवलोक्यते स्पष्टं, तथैव वचनसमूहेऽपि त्वत्तुर्बुद्धिर्लक्ष्यते इति भावः ॥ २६ ॥

व्याकरणम्—अभिदृश्यते = अभि + दृश् + लट् ॥ २६ ॥

वाच्यान्तरम्—अपवर्जितविप्लवे, शुचौ, हृदयग्राहिणि, मङ्गलास्पदे, तव, गिरां, विस्तरे तव, मतिम्, आदर्श, इव अभिपश्यामि ॥ २६ ॥

कोशः—'प्रमाणबाधः किक विप्लवः स्यात्तद्युक्तिशून्यं वचनं मतं तत्, इति । 'माङ्गल्यं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः । 'वाणी तु भारती भाषा'