भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 236, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 236
५२किरातार्जुनीयम्[ तृतीयः

अन्वयः—अभिमानव्यसनात्, दन्तव्यसनाद्, दन्ती, इव, असह्यं, विकारं, प्राप्तः, द्विषत्प्रतापान्तरितोरुतेजाः, ( त्वं ) शरद्घनाकीर्णः, अह्रः, आदिः, इव ( जातः ) ॥ ४५ ॥

व्याख्याअभिमानव्यसनात् = स्वकुलोचितसम्माननाशाद्, वा, वंशगौरव-भ्रंशाद् ( हेतोः ), ( त्वं ) दन्तव्यसनाद् = दशनोत्पाटनाद्, दन्ती = गजः, इव, असह्यं = सोढुमशक्यं, विकारं = चित्तक्षोभं, दुःखमिति यावत् । प्राप्तः = आप्तः । द्विषत्प्रतापान्तरितोरुतेजाः = अरिविक्रमपिहितमहोँजाः त्वमर्जुनः, शरद्घनाकीर्णः-शरदृतुमेघाच्छादितः, अह्रः = दिनस्य, आदिः = आरम्भः अर्थात् मेघाच्छादितोदय-कालिकसूर्य इव जातः । त्वम् अन्यमाकारमभिपन्न इव जात इत्यग्रिमश्लोका-दानेतव्यम् ॥ ४५ ॥

समासः—अभिमानस्य व्यसनम्, अभिमानव्यसनं, तस्मादभिमानव्यसनात् । दन्तयोर्व्यसनं दन्तव्यसनं, तस्माद् दन्तव्यसनाद्, द्विषतः प्रतापो द्विषत्प्रताप-स्तेनान्तरितम् उरु तेजो यस्यासौ द्विषत्प्रतापान्तरितोरुतेजाः । शरदि घन शरद्धनः, शरद्धनेनाकीर्णः शरद्धनाकीर्णः ॥ ४५ ॥

व्याकरणम्—प्राप्तः = प्र + आप् + क्तः ॥ ४५ ॥

वाच्यान्तरम्—दन्तव्यसनाद् दन्तिनेव, अभिमानव्यसनादसह्यं विकारं प्राप्तेन द्विषत्प्रतापान्तरितोरुतेजसा शरद्धनाकीर्णेनाह्न आदिनेव ‘त्वया भूयते’ ॥ ४५ ॥

कोषः—‘अभिमानं स्वहङ्कारे स्वकुलस्य च गौरवे’-इति कोषः । ‘व्यसनं विपदि भ्रंशे दोषे कामजकोपजे’-इत्यमरः । ‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विप, इत्यमरः । ‘प्रकृतेरन्याथत्वे तु विकारः परिणामकः’ इत्यमरः । ‘घनजीमूत-मुदिरजलमुग्धूमयोनय’ इत्यमरः । ‘घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ’ इत्यमरः ॥ ४५ ॥

सारार्थः—यथा हस्तिनो दन्तनाशाद्वैरूप्यं भवति, तथा तवापि कुलोचित-गौरवभ्रंशादनिर्वचनीयं दुःखजालमुपस्थितम् । एवं च मेघाच्छादितः प्रभात-भानुर्यथा तथैवाधुना वैरिपराक्रमाच्छादितभवत्परमप्रतापभानुर्न राजत इत्यर्थः ॥

भाषार्थः—जैसे दाँत के नष्ट हो जाने से हाथी, वैसे अपने सब गौरव के नाश होने से आप भी सहन योग्य नहीं हैं, ऐसे भिन्न रूप में बन गये हैं। और जैसे आश्विन-कार्तिक के बादलों से सुबह के सूर्य ढके रहने पर तेज़हीन जान पड़ते हैं वैसे शत्रु के प्रताप से ढके हुये विशेष तेज वाले आप भी शोभा नहीं पाते ॥ ४५ ॥

सपीडमम्वैरिव निष्पिष्यत्वाद्भात्यर्थमखैरवभासमानः ।
यशःक्षयाद् क्षीणजलार्णवामस्त्यमन्यमाकारमिवाभिपन्नः ॥ ४६ ॥

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 236, कुल 707 में से · BharatKosha