भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 303, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 303

पञ्चमः सर्गः ४९

**अर्थः—**देवासुरैः = सुरासुरैः। येन = मन्दराद्रिणा। अपविद्धसलिलः = क्षिप्तजलः। स्फुटनागसद्मा = स्फुटपाताललोकः। अम्बुनिधिः = सागरः। अमृतं ममन्थे = मथितम्। अहिपतेः = वासुकेः। व्यावर्तनैः = वेष्टनैः। आहिताङ्कः = कृतचिह्नः। अयम् = निद्दिष्टः। सः = पूर्वोक्तः। मन्दराद्रिः = मन्दराचलः। खम् = आकाशम्। आलिखन् = व्यापारयन्। इव विभाति = शोभते। अत्रोत्प्रेक्षालङ्कारः।

कोषः—'सलिलं कमलं जलम्' इत्यमरः।

**हिन्दी—**जिस मन्दराचल से सुरों तथा असुरों ने अमृत प्राप्त करने के लिए सागर मन्थन किया था। मन्थन करते समय जल के उछलने से पाताल लोक दिखलाई देने लगता था। वह मन्दराचल वासुकि के विवर्तन से चिह्नित होकर मानो आकाशमण्डल का भेदन कर रहा है॥ ३०॥

नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रै- रानीलाभैर्विरचितपरभागा रत्नैः। ज्योत्स्नाशङ्कामिह वितरति हंसश्येनी मध्येप्यह्नः स्फटिकरजतभित्तिच्छाया॥ ३१॥

**अन्वयः—**इह अशिशिररश्मेः उस्रैः उच्छ्रायं नीता, आनीलाभैः रत्नैः विरचितपरभागा हंसश्येनी स्फटिकरजतभित्तिच्छाया अह्नः मध्ये अपि मुहुः ज्योत्स्नाशङ्कां वितरति।

**विग्रहः—**अशिशिराः रश्मयः यस्य, तस्य = अशिशिररश्मेः। आनीला आभा येषां तैः = आनीलाभैः। विरचितः परभागो यया सा = विरचितपरभागा। हंस इव श्येनी हंसश्येनी। स्फटिकानां रजतानाञ्च भित्तयः तासां छाया = स्फटिकरजतभित्तिच्छाया। ज्योत्स्नायाः शङ्का, तां = ज्योत्स्नाशङ्काम्।

**अर्थः—**इह = अस्मिन्मन्दराद्रौ। अशिशिररश्मेः = सूर्यस्य। उस्रैः = किरणैः। उच्छ्रायम् = महत्त्वम्। नीता = प्रापिता। आनीलाभैः = असितप्रभैः, रत्नैः = मणिभिः। विरचितपरभागा = रचितापरभागा। हंसश्येनी = हंसश्वेतवर्णा। स्फटिकरजतभित्तिच्छाया = स्फटिकरजतभित्तिकान्तिः। अह्नः मध्ये = मध्याह्ने, अपि। मुहुः = भूयः। ज्योत्स्नाशङ्कां = चन्द्रिकाशङ्काम्। वितरति = जनयति। अत्र भ्रान्तिमदलङ्कारः।

कोषः—'विशदश्वेतपाण्डराः' इत्यमरः।