भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 304, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 304

४६ किराताजुनोयम्

हिन्दी—इस मन्दराचल पर सूर्य की किरणों द्वारा ऊँची उठी हुई, इन्द्र नील मणियों की प्रभा से प्रतिबिम्बित, स्फटिक पत्थरों व रजत से बनी हुई दीवार की छाया मध्याह्न काल में भी बारम्बार चाँदनी की शङ्का उत्पन्न कर देती है ॥ ३१ ॥

दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि । इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ॥ ३२ ॥

अन्वयः—इह मृदु पतता पवनेन कम्पितानि पङ्कजानि ललितविलासिनी- जनभ्रूगतिकुटिलेषु पयःसु विलासशालि नृत्यं दधत इव ।

विग्रहः—ललितस्य विलासिनीजनस्य भ्रूगतिवत्कुटिलेषु = ललितविलासिनी- जनभ्रूगतिकुटिलेषु । विलासं शीलमस्तीति तत् = विलासशालि ।

अर्थः—इह = अस्मिन् पर्वते । मृदु = मन्दं । पतता = बहता । पवनेन = वायुना । कम्पितानि = तरङ्गितानि । पङ्कजानि = कमलानि । ललितविलासिनी- जनभ्रूगतिकुटिलेषु = सुन्दरीभ्रूगतिवत्कुटिलेषु, 'ईषत्तरंगितेषु' इत्यर्थः । पयःसु = जलेषु । विलासशालि नृत्यम् = सविलासनृत्यम् । दधत इव = धारयन्ति इव, सविलासं नृत्यन्तीवम् इत्यर्थः । अत्रोत्प्रेक्षालङ्कारः, पुष्पिताग्रावृत्तञ्च ।

कोषः—'लास्यं नृत्यं च नर्त्तने' इत्यमरः ।

हिन्दी—इस हिमालय पर सुन्दरियों की भौंहों के समान कुटिल गतियुक्त जल में धीरे-धीरे चलते हुए पवन के द्वारा कमल हिल रहे हैं । जैसे कि वे कम्पित कमल हाव-भाव सहित नृत्य कर रहे हों ॥ ३२ ॥

अस्मिन्नगृह्णात् पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः । विन्यस्तमङ्गलमहोषधिरोधवरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः । ३३।

अन्वयः—अस्मिन् पिनाकभृता अधीरविलोचनायाः ईश्वरायाः आबद्धवेपथुः विन्यस्तमङ्गलमहोषधिः पाणिः स्रस्तोरगप्रतिसरेण करेण सलीलम् अगृह्णात् ।

विग्रहः—पिनाकं बिभर्तीति पिनाकभृत् तेन = पिनाकभृता । अधीरे विलोचने यस्यास्तस्याः अधीरविलोचनायाः । आबद्धः वेपथुः यस्मिन् सः = आबद्धवेपथुः । विन्यस्तमङ्गलमहोषधिः यस्मिन् सः = विन्यस्तमङ्गलमहोषधिः । स्रस्तः उरग एव प्रतिसरः यस्य तेन = स्रस्तोरगप्रतिसरेण । लीलया सहितं सलीलम् ।

अर्थः—अस्मिन् = हिमालये । पिनाकभृता = शिवेन । अधीरविलोचनायाः =

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 304, कुल 707 में से · BharatKosha