भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 310, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 310

५२ | किरातार्जुनीयम्

रजतभित्तिमयूखजालैः । आलोलानां पादपलतानाम् अन्तराणि = आलोलपादपलतान्तराणि तेभ्यः निर्गतानाम् = आलोलपादपलतान्तरनिर्गतानाम् । आदर्शस्य मण्डलनिभानि = आदर्शमण्डलनिभानि ।

**अर्थः--**इह = अस्मिन् कैलासे । रजतभित्तिमयूखजालैः = रजतभित्तिकिरणनिकरैः । सम्मूर्च्छताम् = बहुलीभवताम् । आलोलपादपलतान्तरनिर्गतानाम् = कम्पिततरुशाखारन्ध्रप्रसूतानाम् । घर्मद्युतेः = सूर्यस्य । धाम्नाम् = तेजसाम् । आदर्शमण्डलनिभानि = दर्पणबिम्बसमानि । पटलानि = मण्डलानि । मुहुः = भूयो भूयः । समुल्लसन्ति = स्फुरन्ति न तु सातत्येन । अत्रोपमालङ्कारः ।

कोषः--'किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः ।

**हिन्दी--**इस कैलास पर चाँदी की दीवार की किरणों से उत्कर्षशाली, शनैः शनैः कांपती (हिलती) हुई वृक्ष-लताओं के बीच से निकलती हुई सूर्य-किरणों के समूह शीशे के प्रतिबिम्बों के समान बारम्बार शोभित हो रहे हैं ॥ ४१ ॥

शुक्लैमयूखनिचयैः परिवीतमूर्ति- र्वप्राभिघातपरिमण्डलितोरुदेहः । शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा कुर्वन्वधूजनमनःसु शशाङ्कशङ्काम् ॥ ४२ ॥

**अन्वयः--**शुक्लैः मयूखनिचयैः परिवीतमूर्तिः वप्राभिघातपरिमण्डलितोरुदेहः गणभर्तुः उक्षा वधूजनमनःसु शशाङ्कशङ्काम् कुर्वन् अमुष्य शृङ्गाणि भजते ।

**विग्रहः--**मयूखानां निचयास्तैः = मयूखनिचयैः । परिवीता मूर्तिर्यस्य सः = परिवीतमूर्तिः । परिमण्डलितः उरुदेहः = परिमण्डलितोरुदेहः । वप्राभिघातेन परिमण्डलितोरुदेहः यस्य सः = वप्राभिघातपरिमण्डलितोरुदेहः । गणानां भर्ता, तस्य = गणभर्तुः । वधूजनानां मनःसु = वधूजनमनःसु । शशः अङ्के यस्य सः = शशाङ्कः, तस्य शङ्का, ताम् = शशाङ्कशङ्काम् ।

**अर्थः--**शुक्लैः = शुभ्रैः । मयूखनिचयैः = किरणनिकरैः । परिवीतमूर्तिः = व्याप्तदेहः । वप्राभिघातपरिमण्डलितोरुदेहः = वप्रक्रीडावर्तुलीकृतबृहच्छरीरः ।