भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 316, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 316

५८ | किरातार्जुनीयम्

अन्वयः— तव इन्द्रियाश्वाः अपथहृतः मा भूवन्, सन्तापे शिवः शिवां प्रसक्तिम् दिशतु। लोकपालाः तपसि बलं रक्षन्तः कल्याणीं क्रियाम् अधिकफलां क्रियासुः।

विग्रहः— इन्द्रियाण्येवाश्वाः = इन्द्रियाश्वाः। अपथेन हरन्तीत्यपथहृतः। लोकान् पालयन्तीति लोकपालाः। अधिकं फलं यस्यां ताम् = अधिकफलाम्।

अर्थः— तव = ते (अर्जुनस्य) इन्द्रियाश्वाः = इन्द्रियतुरगाः। अपथहृतः = अपथचालकाः। मा भूवन् = नैव भवन्तु। सन्तापे = तपःक्लेश। शिवः = शङ्करः। शिवां = कल्याणिनीं। प्रसक्तिम् = प्रवृत्तिम्। दिशतु = प्रकाशयतु। लोकपालाः = इन्द्रादयः। तपसि = तपश्चरणे। बलं = शक्तिम्। रक्षन्तः = वर्द्धयन्तः सन्तः। कल्याणी = साध्वीम्। क्रियाम् = अनुष्ठानम्। अधिकफलाम् = अधिकफलवन्तम्। क्रियासुः = कुर्वन्तु।

कोषः— 'घोटको वीतितुरगतुरङ्गानश्वतुरङ्गमाः' इत्यमरः।

हिन्दी— आपकी इन्द्रियां घोड़ों के समान अपथगामिनी न बनें, तपःक्लेश में भगवान् आपको कल्याण में प्रवृत्त करें तथा इन्द्रादि लोकपाल तपस्या में आपकी शक्ति की रक्षा करते हुए कल्याणकारी कार्य (तपस्या) को सफल बनावें॥ ५० ॥

इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे
धाम स्वं गतवति राजराजभृत्ये।
सोत्कण्ठं किमपि पृथासुतः प्रदध्यौ
सन्धत्ते भृशमरतिं हि सद्वियोगः॥ ५१ ॥

अन्वयः— प्रियार्हे राजराजभृत्ये इति प्रियं हितम् उक्त्वा सपदि स्वं धाम गतवति पृथासुतः सोत्कण्ठम् किम् अपि प्रदध्यौ। हि सद्वियोगः भृशम् अरतिं सन्धत्ते।

विग्रहः— प्रियस्यार्हः = प्रियार्हः तस्मिन् = प्रियार्हे। राज्ञां राजा = राजराजः तस्य भृत्यः, तस्मिन् = राजराजभृत्ये। पृथायाः सुतः = पृथासुतः। उत्कण्ठया सहितम् = सोत्कण्ठम्। सता वियोगः = सद्वियोगः। न रतिः = अरतिस्ताम् = अरतिम्।