भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 315, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 315

पञ्चमः सर्गः ५७

**हिन्दी—**इस इन्द्रनील पर्वत पर घनी मेघमालाओं के समान नीलमणियों की किरणों द्वारा आपस में टकरा कर सूर्य की किरणें कन्दराओं को प्रकाशित नहीं कर पाती हैं। इस प्रकार वे सूर्य-किरणें तिमिराच्छन्न-सी हो जाती हैं ॥ ४८ ॥

भव्यो भवन्नपि मुनेरिह शासनेन, क्षात्रे स्थितः पथि तपस्य हतप्रमादः । प्रायेण सत्यपि हितार्थंकरे विधौ हि, श्रेयांसि लब्धुमसुखानि विनान्तरायैः ॥ ४९ ॥

**अन्वयः—**इह भव्यः भवन् अपि मुनेः शासनेन क्षात्रे पथि स्थितः हतप्रमादः तपस्य । हि प्रायेण हितार्थकरे विधौ सति अपि अन्तरायैः विना श्रेयांसि लब्धुम् असुखानि ।

**विग्रहः—**हतः प्रमादः येन सः = हतप्रमादः । हितम् अर्थञ्च करोति यः तस्मिन् = हितार्थकरे । नास्ति सुखं येषु तानि = असुखानि ।

**अर्थः—**इह = अस्मिन् पर्वते । भव्यः = शान्तः । भवन् अपि = सम्भवन्नपि । मुनेः = व्यासस्य । शासनेन = इन्द्राराधनरूपाज्ञया । क्षात्रे = क्षत्रियोचिते । पथि = मार्गे । स्थितः = वर्तमानः । हतप्रमादः = प्रमादरहितः । तपस्य = तपश्चर । हि = यतः । प्रायेण = प्रायः, हितार्थकरे = हितकरे । विधौ = व्यापारे । सत्यपि = भवत्यपि । अन्तरायैः विना = विघ्नैः विना । श्रेयांसि = कल्याणानि । लब्धुम् = प्राप्तुम् । असुखानि = अशक्यानि ।

कोषः—'अयनं वर्त्म मार्गश्चाध्वपन्थानः पदवी सृतिः' इत्यमरः ।

हिन्दी—( यक्ष ने अर्जुन से कहा ) हे अर्जुन ! भव्य होते हुए भी व्यास मुनि की आज्ञा के अनुसार क्षत्रिय धर्म का पालन करते हुए सावधान होकर इस इन्द्रनील पर्वत पर तुम तप करो । प्रायः कल्याण होने में अनेक विघ्न पड़ते ही हैं ॥ ४९ ॥

मा भूवन्नपपथहृतस्तवेन्द्रियाश्वाः सन्तापे दिशतु शिवः शिवां प्रसक्तिम् । रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीमधिकफलां क्रियां क्रियासुः ॥ ५० ॥