भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 325, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 325

षष्ठः सर्गः ६७

बहु बर्हिचन्द्रकनिभं विदधे धृतिमस्य दानपयसां पटलम् ।
अवगाढमीक्षितुमिभेभपतिं विकसद्विलोचनशतं सरितः ॥ ११ ॥

अन्वयः—बर्हिचन्द्रकनिभं बहु दानपयसां पटलम् अवगाढम् इभपतिम् ईक्षितुम् विकसत् सरितः विलोचनशतम्, अस्य धृतिम् विदधे ।

विग्रहः—बर्हिणः चन्द्रकनिभम् = बर्हिचन्द्रकनिभम् ; दानस्य पयस्तेषाम् = दानपयसाम् । इभानां पतिः, तम् = इभपतिम् । विलोचनानि च तानि शतानि तेषां समाहार इति विलोचनशतम् ।

अर्थः—बर्हिचन्द्रकनिभं = मयूरमेचकसदृशम् । बहु = अनेकधा । दानमदजलानाम् । पटलम् = बिन्दुसमूहम् । अवगाढम् = अन्तःप्रविष्टम् इभपतिम् = गजराजम् । ईक्षितुम् = द्रष्टुम् । विकसत् = उन्मिषत् । सरितः = नद्यः । विलोचनशतम् = नेत्रशतम् इव । अस्य = अर्जुनस्य । धृतिम् = प्रीतिम् । विदधे = चकार । अत्रोत्प्रेक्षालंकारः ।

कोषः—‘समो चन्द्रकमेचकौ’ इत्यमरः

हिन्दी—मयूरपिच्छ के समान, प्रचुर मदजलबिन्दु जल में प्रविष्ट गजराज को देखने के लिए नदी के खुले हुए सैकड़ों नेत्रों के समान अर्जुन के प्रेम को बढाने में सहायक हुए ॥ ११ ॥


प्रतिबोधजृम्भणविभिन्नमुखी पुलिने सरोरुहदृशा ददृशे ।
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ॥ १२ ॥

अन्वयः—प्रतिबोधजृम्भणविभिन्नमुखो पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दु इव शुक्तिवधूः पुलिने सरोरुहदृशा ददृशे ।

विग्रहः—प्रतिबोधे जृम्भणम् = प्रतिबोधजृम्भणम्, तेन विभिन्नम् मुखम् यस्याः सा = प्रतिबोधजृम्भणविभिन्नमुखी। पतन् अच्छमौक्तिकमणीनां प्रकरः यस्याः सा = पतदच्छमौक्तिकमणिप्रकरा । गलन्तः अश्रुबिन्दवः यस्याः सा = गलदश्रुबिन्दुः । शुक्तिः वधुः इव सा = शुक्तिवधूः । सरोरुहम् इव दृक् यस्य तेन = सरोरुहदृशा ।

अर्थः—प्रतिबोधजृम्भणविभिन्नमुखी = उद्बोधोच्छूनविवृतास्या । पतदच्छमौक्तिकमणिप्रकरा=प्रसरदच्छमौक्तिकमणितोमा । गलदश्रुबिन्दुः = पतदश्रुबिन्दुः ।