किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 326, कुल 707 में से
संदर्भ में पढ़ें६८ किरातार्जुनीयम्
इव शुक्तिवधूः = शुक्तिकावधूः । पुलिने = सैकते । सरोरुहदृशा = कमलनेत्रेणार्जुनेन : ददृशे = दृष्टा । अत्र सन्देहालङ्कारः । कोषः—'पुलिनं सैकतं सिकतामयम्' इत्यमरः । **हिन्दी:—**कमल के समान नेत्रों वाले अर्जुन ने पुलिन-प्रदेश में झाँसुओं की झड़ीसी लगाती हुई रमणी के समान शुक्तिका (सीपी) को देखा। यह सीपी इस प्रकार खुली हुई थी जैसे जगकर जम्भाई लेते हुए मुख खोले हुए रमणी होती है । इस सीप से मौक्तिक कांति फैल रही थी ॥ १२ ॥
शुचिरप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः । स्मरदायिनः स्मरयतिस्म भृशं दयिताधरस्य दशनांशुभृतः ॥ १३ ॥
**अन्वयः—**अप्सु शुचिः तनुसान्द्रफेनलवसंवलितः विद्रुमलताविटपः स्मरदायिनः दशनांशुभृतः दयिताधरस्य भृशं स्मरयतिस्म ।
**विग्रहः—**तनुना सान्द्रेण च फेनस्य लवेन संवलितः = तनुसान्द्रफेनलवसंवलितः । विद्रुमलतायाः विटपः = विद्रुमलताविटपः । स्मरं दातुं शीलमस्य सः- स्मरदायी, तस्य = स्मरदायिनः । दशनांशु बिभर्तीति तस्य = दशनांशुभृतः । दयितायाः अधरस्तस्य = दयिताधरस्य ।
**अर्थः—**अप्सु = जलेषु । शुचिः = स्वच्छः । तनुसान्द्रफेनलवसंवलितः = क्षीणसघनफेनशीकरसङ्गतः । विद्रुमलताविटपः = विद्रुमलतापल्लवः । स्मरदायिनः = कामोद्दीपकस्य । दशनांशुभृतः = दन्तकान्तिकलिउस्य । दयिताधरस्य = प्रियाधरस्य । भृशम् = अत्यन्तम् । स्मरयतिस्म = स्मरणं कारयति स्म । अत्र स्मरणालङ्कारः ।
कोषः—'विटपः पल्लवे विड्गे विस्तारे स्तम्बशाखयोः' इति विश्वः । **हिन्दी:—**जल में स्वच्छ तथा छोटे व घने फेन-कणों (बिन्दुओं) से युक्त विद्रुमलता का पल्लव, कामोद्दीपक, दशनकान्तिककलित प्रियतमा के अधर का स्मरण करा देता था ॥ १३ ॥
उपलभ्य चञ्चलतरङ्गधूतं मदगन्धमुत्थितवतां पयसः । प्रतिदन्तिनामिव स सम्बुबुधे करियादसामभिमुखान्करिणः ॥ १४ ॥
**अन्वयः—**सः चञ्चलतरङ्गधूतं मदगन्धम् उपलभ्य पयसः उत्थितवतां करियादसां प्रतिदन्तिनाम् इव अभिमुखान् करिणः सम्बुबुधे ।