भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 333, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 333

षष्ठः सर्गः | ७५

कोषः— 'सोमो ऽमृताङ्कः कलानिधिः' इत्यमरः ।

हिन्दी— आयुध धारण किये होने पर भी सरलमति वाले, रजोगुण से रहित तथा पवित्र आचरणों से मुनियों को जीतते हुए अर्जुन ने हिरणों को प्रसन्न कर लिया । गुण किसे नहीं प्रसन्न कर लेते हैं ॥ २४ ॥


अनुकूलपातिनमचण्डगतिं किरता सुगन्धिमभितः पवनम् ।
अवधीरिताऽऽर्तवगुणं सुखतां नयता रुचां निचयमंशुमतः ॥२५॥

अन्वयः— अनुकूलपातिनम् अचण्डगतिं सुगन्धि पवनम् अभितः किरता अवधीरिताऽऽर्तवगुणम् अंशुमतः रुचां निचय सुखता नयता ।

विग्रहः— अनुकूलं पततीति तम् = अनुकूलपातिनम् । नास्ति चण्डा गतिः यस्य तम् = अचण्डगतिम् । ऋतुरस्य प्राप्त आर्तवः । आर्तवश्वासौ गुणः = आतवगुणः । अवधीरिताः आतवगुणः यस्य तम् = अवधीरिताऽऽर्तवगुणम् ।

अर्थः—

  • अनुकूलपातिनम् = अनुसारपातिनम् ।
  • अचण्डगतिम् = चण्डगतिरहितं, मन्दगामिनमित्यर्थः ।
  • सुगन्धिम् = सुरभियुक्तम् ।
  • पवनम् = वायुम् ।
  • अभितः = परितः ।
  • किरता = प्रवर्तयता ।
  • अवधीरिताऽऽर्तवगुणम् = तिरस्कृतातपस्वरूपम् ।
  • अंशुमतः = सूर्यस्य ।
  • रुचां = किरणानाम् ।
  • निचयम् = राशिम् ।
  • सुखता = सुखस्पर्शताम् ।
  • नयता = प्रापयता ।

कोष— 'इनो भगो धामनिधिस्त्वंशुमाल्यब्जिनीपतिः ।' इत्यमरः ।

हिन्दीः— अनुकूल चलती हुई मन्द सुगन्धित वायु को चारों ओर फैलाते हुए तपश्चरण (तपस्या) ने ग्रीष्मकालीन गर्मी को तिरस्कृत करके सूर्य की किरण-राशि को सुखकर बना दिया । २५ ॥


नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून गमयताऽवनतिम् ।
स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतामुपयतीं वसुधाम् ॥ २६ ॥

अन्वयः— प्रचये नवपल्लवाञ्जलिभृतः बृहतः तरून् अवनति गमयता प्रतिनिशं शयनीयताम् उपयतीं वसुधां मृदुभिः तृणैः स्तृणता ।

विग्रहः— नवाः पल्लवाः एव अञ्जलयः, तान् बिभ्रतीति तान् = नवपल्लवाञ्जलिभृतः । निशि निशि = प्रतिनिशम् ।

अर्थः—

  • प्रचये = पुष्पावचयप्रसङ्गे ।
  • नवपल्लवाञ्जलिभृतः = नूतनकुसुमाञ्जलिधारिणः ।
  • बृहतः = विस्तीर्णान् ।
  • तरून् = पादपान् ।
  • अवनतिम् = नम्रताम् ।