किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 346, कुल 707 में से
संदर्भ में पढ़ें८८ | किरातार्जुनीयम्
अन्वयः— अमर्त्यवधूसमूहः सुराणां पुरः आशंसितापचितिचारु अभिमुखं भर्तुः इति आदेशं समवाप्य परां द्युतिं लेभे । हि अधिकृतस्य सम्भावना तेजः तनोति ।
विग्रहः— अमर्त्यवधूनां समूहः = अमर्त्यवधूसमूहः । अशंसिताभिः अपचितिभिः चारु यथा तथा = अशंसितापचितिचारु ।
अर्थः— अमर्त्यसमूहः = सुराङ्गनानिकरः । सुराणां = देवानां । पुरः = अग्रे । आशंसितापचितिचारु = अपेक्षितसम्भावनाचारु । अभिमुखम् = सम्मुखम् । भर्तुः = स्वामिनः, इन्द्रस्य । इति = पूर्वोक्तम् । आदेशं = निर्देशम् । समवाप्य = प्राप्य । परां = महतीम् । द्युति = कान्तिम् । लेभे = प्राप । हि = यतः । अधिकृतस्य = अधिकारे नियुक्तस्य । सम्भावना = स्वामिकृता पूजा । तेजः = कान्तिम् । तनोति = विस्तारयति ।
कोषः— 'आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ।' इत्यमरः ।
हिन्दी— अप्सराओं का समूह देवताओं के समक्ष देवराज इन्द्र के आदेश को प्राप्त करके पूर्वोक्त प्रशंसा की अपेक्षा अधिक कान्ति को प्राप्त हुआ । क्योंकि किसी अधिकार में नियुक्त पुरुष की प्रशंसा करने पर उसके तेज की अभिवृद्धि होती है ॥ ४६ ॥
प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः
स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः ।
अचलनलिनलक्ष्मीहारि नालं बभूव
स्तिमितममरभर्तुर्दृष्टुमक्ष्णां सहस्रम् ॥ ४७ ॥
अन्वयः— अथ प्रणतिं विधाय सद्मनः प्रस्थिताः स्तनभरनमिताङ्गीः प्रीतिभाजः ताः अङ्गनाः अचलनलिनलक्ष्मीहारि स्तिमितम् अमरभर्तुः अक्ष्णां सहस्रं द्रष्टुम् अलम् न बभूव ।
विग्रहः— स्तनभरैः नमितानि अङ्गानि यासां ताः = स्तनभरनमिताङ्गीः । प्रीति भजन्तीति ताः = प्रीतिभाजः । अचलनलिनानां लक्ष्म्यः, ताः हरतीति अचलनलिनलक्ष्मीहारि । अमराणां भर्ता, तस्य = अमरभर्तुः ।
अर्थः— अथ = अनन्तरम् । प्रणतिं = नमस्कृतिं । विधाय = कृत्वा । सद्मनः = इन्द्रभवनात् । प्रस्थिताः = प्रचलिताः । स्तनभरनमिताङ्गी = पयोधर-