किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 353, कुल 707 में से
संदर्भ में पढ़ेंसप्तमः सर्गः ९५
अन्वयः— सिन्दूरैः कृतरुचयः सहैमकक्ष्याः स्रोतोभिः मदं क्षरन्तः त्रिदशगजाः अरुणांशुरागभिन्नैः वर्षद्भिः स्फुरितशतह्रदैः पयोदैः सादृश्यम् ययुः ।
विग्रहः— कृताः रुचयाः यैस्ते = कृतरुचयः । सह हेम्नः कक्ष्याभिरिति = सहैमकक्ष्याः । त्रिदशानां गजाः = त्रिदशगजाः । अरुणांशोः रागेण भिन्नास्तैः = अरुणांशुरागभिन्नैः । स्फुरिताः शतह्रदाः यत्र तैः = स्फुरितशतह्रदैः ।
अर्थः— सिन्दूरैः = नागसम्भवनामरागद्रव्यैः । कृतरुचयः = अलङ्कृताः । सहैमकक्ष्याः = सस्वर्णमध्यगजवन्धाः । स्रोतोभिः = सप्तमदनाडोभिः । मदं = मदजलम् । क्षरन्तः = वर्षन्तः । त्रिदशगजाः = देवगजाः । अरुणांशुरागभिन्नैः = सूर्यकिरणारुण्यभिन्नैः । वर्षद्भिः = क्षरद्भिः । स्फुरितशतह्रदैः = स्फुरिततडित्कैः । पयोदैः = जलधरैः । सादृश्यम् । ययुः = जग्मुः । अत्रोपमालङ्कारः ।
कोषः— 'सिन्दूरं नागसम्भवम्' इत्यमरः । 'कक्ष्याः प्रकोष्ठे हर्म्यादिः काञ्च्यान् मध्येभवन्धने' इत्यमरः ।
हिन्दी — सिन्दूर से सुशोभित, स्वर्ण-शृङ्खलायुक्त, मदनाडियों से मद टपकाते हुए देवताओं के हाथी, सूर्य की किरणों से व्याप्त, चमकती हुई बिजली वाले बरसते हुए बादलों के समान दिखलाई दे रहे थे ॥ ८ ॥
अत्यर्थं दुरुपसदादुपैत्य दूरं पर्यन्तादहिममयूखमण्डलस्य ।
आशानामुपरचितामिवैकवेणीं रम्योर्मि त्रिदशनदीं ययुर्बलानि॥ ९ ॥
अन्वयः— बलानि अत्यर्थं दुरुपसदात् अहिममयूखमण्डलस्य पर्यन्तात् दूरम् उपेत्य आशानाम् उपरचिताम् एकवेणीम् इव रम्योर्मिम् त्रिदशनदीं ययुः ।
विग्रहः— दुःखेन्योपसदस्तस्मात् = दुरुपसदात् । अहिमं मयूखानां मण्डलं यस्य तस्य = अहिममयूतमण्डलस्य । एकावेणी = एकवेणी ताम् = एकवेणीम् । रम्याः ऊर्मयः यस्यास्तान् = रम्योर्मिम् । त्रिदशानां नदी ताम् = त्रिदशनदीम् ।
अर्थः— बलानि = सैन्यानि । अत्यर्थम् = अत्यन्तम् । दुरुपसदात् = दुःसहात् । अहिममयूखमण्डलस्य = तप्तकिरणमण्डलस्य सूर्यस्य । पर्यन्तात् = समीपात् । दूरम् = दूरदेशम् । उपेत्य = गत्वा । आशानाम् = दिशाम् । उपरचिताम् = गुम्फिताम् । एकवेणीम् इव = एकवेणीसदृशीम । रम्योर्मिम् = रमणीयतरङ्गाम् । त्रिदशनदीम् = मन्दाकिनीम् । ययुः = जग्मुः ।