भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 352, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 352

९४ किरातार्जुनीयम्

क्रियते स्म इव = कृत इव। दीर्घा ध्वजपटाः स्वतेजःप्रसारेण दीर्घतमा इव लक्ष्यन्त इत्यर्थः । अत्रोत्प्रेक्षालङ्कारः ।
कोषः—'गौरः पीतेऽरुणे श्वेते' इति विश्वः ।
**हिन्दी—**विमानों पर फहराते हुए ध्वजवस्त्रों की दीप्तियां नीलाकाश में शोभित हो रही थीं । तारों की गति के समान उनकी गति दिखाई पड़ती थी । वे उल्कागतियां कसौटी पर खिची हुई स्वर्णरेखाओं के समान चमकती थीं । इस प्रकार ध्वजदीप्तियां ध्वजवस्त्रों को लम्बाई-चौड़ाई का विस्तार सा कर रही थी ॥ ६ ॥


रामानामवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वमातपस्य ।
गन्धर्वैरधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः॥७॥

**अन्वयः--**अवजितमाल्यसौकुमार्ये रामाणाम्, वपुषि आतपस्य सहत्वम् सम्प्राप्ते अधिगतविस्मयैः गन्धर्वैः विधातुः विधिषु कल्याणी विचित्रता प्रतीये ।

**विग्रहः--**मालेव माल्यम्, तस्य सौकुमार्यम् = माल्यसौकुमार्यम् । अवजितं माल्यसौकुमार्यम् येन तस्मिन् = अवजितमाल्यसौकुमार्ये । सहते इति सहः, तस्य भावः = सहत्वम् । अधिगतः विस्मयः यैस्तैः अधिगतविस्मयैः ।

**अर्थः--**अवजितमाल्यसौकुमार्ये = कुसुमादपि सुकुमारे । रामाणाम् = अप्सरसाम् । वपुषि = शरीरे । आतपस्य = घर्मस्य । सहत्वम् = सहनीयताम् । सम्प्राप्ते = प्राप्ते सति । अधिगतविस्मयैः = प्राप्ताश्चर्यैः । गन्धर्वैः = तज्जातिविशिष्टैर्देवैः । विधातुः = ब्रह्मणः । विधिषु = सृष्टिषु । कल्याणी = साधीयसी । विचित्रता = नानाविधित्वम् । प्रतीये = अवगता ।

कोषः—'गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ।' इत्यमरः ।

**हिन्दी--**आश्चर्य-चकित गन्धर्वों ने देखा कि अप्सराओं के शरीर फूलों की कोमलता को भी जीत रहे थे फिर भी वे धूप को सहन कर चुकी थीं इससे गन्धर्वों ने ब्रह्मा जी की रचनाक्रियाओं में कल्याणकारिणी विचित्रता का अनुमान किया ॥ ७ ॥


सिन्दूरैः कृतकवचाः सहेमकक्ष्याः व्राताभिस्त्रिदशगजा मदं क्षरन्तः ।
सादृश्यं ययुररुणांशुरागभिन्नैर्वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥ ८ ॥