किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 351, कुल 707 में से
संदर्भ में पढ़ेंसप्तमः सर्गः ९३
विग्रहः--स्तनानाम् अंगरागस्तस्मिन् = स्तनांगरागे । कृतः पुलकः = कृतपुलकः । च्युताः तिलकाः यैः तेषु = च्युततिलकेषु । मौक्तिकानाम् आभा इव आभा यस्य सः = मौक्तिकाभः । श्रमेण जातम् सलिलम् = श्रमसलिलं, तस्य उद्गमः = श्रमसलिलोद्गमः ।
अर्थः--कान्तानाम् = अप्सरसाम् । स्तनांगरागे = पयोधरालक्तके । कृतपुलकः = जनितोद्भेदः । च्युततिलकेषु = प्रमृष्टतिलकेषु । वक्त्रेषु = मुखेषु । मौक्तिकाभः = मुक्तादीप्तिः । श्रमसलिलोद्गमः = परिश्रमस्वेदोद्भेदः । विभूषाम् = भूषणम् । सम्पेदे = सम्प्राप्तः । रम्याणाम् = रमणीयानाम् । विकृतिः = विकारः । अपि । श्रियम् = शोभाम् । तनोति = विस्तारयति । अत्रार्थान्तरन्यासालङ्कारः ।
कोषः--'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः ।
हिन्दी--देवाङ्गनाओं के स्तनाङ्ग स्वेदबिन्दुओं से रोमाञ्चित थे । ये स्वेदकण उनके मुखों के तिलकों को मिटाकर मोतियों के समान भासित हो रहे थे । वास्तव में स्वभावतः सुन्दर वस्तुओं में उत्पन्न हुआ विकार भी उनकी शोभा को ही बढ़ाता है ॥ ५ ॥
राजद्भिः पथि मरुतामभिन्नरूपैरुल्कार्चिः स्फुटगतिभिर्ध्वजांशुकानाम् ।
तेजोभिः कनकनिकषराजिगौरैरायामः क्रियत इव स्म सातिरेकः ॥६॥
अन्वयः--मरुतां पथि राजद्भिः अभिन्नरूपैः उल्कार्चिः स्फुटगतिभिः कनकनिकषराजिगौरैः ध्वजांशुकानां तेजोभिः आयामः सातिरेकः क्रियते स्म इव ।
विग्रहः--अभिन्नैः रूपैः = अभिन्नरूपैः । उल्कानामार्चीषि = उल्कार्चींषि, तानीव स्फुटगतीनि येषां तैः = उल्कार्चिःस्फुटगतिभिः । कनकस्य निकषस्तस्य राजिस्तद्वद्गौरैः = कनकनिकषराजिगौरैः । ध्वजानाम् अंशुकानि, तेषाम् = ध्वजांशुकानाम् । अतिरेकेण सहितः = सातिरेकः ।
अर्थः--मरुताम् = पवनानाम् । पथि = मार्गे । राजद्भिः = दीप्यमानैः । अभिन्नरूपैः = अविच्छिन्नाकारैः । उल्कार्चिःस्फुटगतिभिः = तारार्चिर्दीप्तिमार्गैः । कनकनिकषराजिगौरैः = स्वर्णकषणरेखागौरैः । ध्वजांशुकानाम् = पताकावस्त्राणाम् । तेजोभिः = कान्तिभिः । आयामः = विस्तारः । सातिरेकः = सातिशयः