भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 350, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 350

१२ | किरातार्जुनीयम्

कोषः—'भास्वद्-विवस्वत्-सप्ताश्वहरिदश्वोष्णरश्मयः' इत्यमरः।

हिन्दी—मार्ग में प्रतिकूल वायु से अप्सराओं के अङ्ग शिथिल हो गये थे। थक जाने के कारण उनके कमलनयन मुरझा गये थे और गालों की अरुणिमा भी मिट गई थी। धूप से व्याकुल होने के कारण उनके गाल पुनः लाल हो गये जिससे उनकी मदजनित शोभा फिर से वापस लौट आई॥ ३॥

तिष्ठद्भिः कथमपि देवतानुभावादाकृष्टैः प्रजविभिरायतं तुरंगैः।
नेमीनामसति विवर्तने रथोघैरासेदे वियति विमानवत्प्रवृत्तिः॥ ४॥

अन्वयः—कथम् अपि देवतानुभावात् तिष्ठद्भिः प्रजविभिः तुरंगैः आयतम् आकृष्टैः रथोघैः वियति नेमीनां विवर्तने असति विमानवत् प्रवृत्तिः आसेदे।

विग्रहः—देवताना अनुभावस्तस्मात् = देवतानुभावात् । रथानाम् ओघाः तैः = रथोघैः ।

अर्थ—कथम् अपि = बाढम् । देवतानुभावात् = देवप्रभावात् । तिष्ठद्भिः = स्थितैः । प्रजविभिः = वेगवद्भिः । तुरङ्गैः = अश्वैः । आयतम् = दूरम् । आकृष्टैः = नीतैः । रथोघैः = रथसमूहैः । वियति = आकाशे । नेमीनाम् = चक्रधाराणाम् । विवर्तने = भ्रमणे । असति = न भवति सति । विमानवत् = विमानसदृशम् । प्रवृत्तिः = गतिः । आसेदे = प्राप्ता । अत्रोपमालङ्कारः ।

कोषः—'कथमादि तथाऽप्यन्ते यत्ने गौरवबाढयोः' इति वैजयन्ती । 'चक्रधारा प्रधिर्नेमिः' इति यादवः ।

हिन्दी—देवताओं के प्रभाव से किसी प्रकार देवांगनाओं के रथ आकाश में टिक गये थे। द्रुतगामी अश्व उन रथों का संचालन कर रहे थे। इस प्रकार आकाश में ऊंचे आते हुए रथसमूह रथनेमियों के न चलने पर साक्षात् विमान लगने लगे थे॥ ४॥

कान्तानां कृतपुलकः स्तनांगरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभः।
सम्पेदे श्रमसलिलोद्गमो विभूषां रम्याणां विकृतिरपि श्रियं तनोति॥ ५॥

अन्वयः—कान्तानां स्तनागरागे कृतपुलकः च्युततिलकेषु वक्त्रेषु मौक्तिकाभः श्रमसलिलोद्गमः विभूषां सम्पेदे । रम्याणां विकृतिः अपि श्रियम् तनोति ।