भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 355, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 355

सप्तमः सर्गः ९७

विमानानां पंक्तयस्ताः = विमानपंक्तीः । वप्रान्तेषु स्खलितानि, तैः ( कृतं ) विवर्त्तनम् = वप्रान्तस्खलितविवर्त्तनम् । तदेव पूर्वम् = तत्पूर्वम् ।

**अर्थः—**इभतुरगावगाहनेन = गजवाज्यवलोडनेन । संभिन्नैः = संक्षुब्धैः । सुरापगायाः = देवनद्याः । पयोभिः = जलैः । पदवीम् अनु = पदव्याम् । उर्वीः = विपुलाः । विमानपंक्तीः = विमानराजीः । प्राप्य = लब्ध्वा । तत्पूर्वं = इदं पूर्वं यथा तथा । वप्रान्तस्खलितविवर्त्तनम् = रोधोभूमिस्खलितप्रतिवर्तनम् । प्रतिनिववृधे = चक्रे । अत्रातिशयोक्तिरलङ्कारः ।

कोशः—‘वप्रः पितरि केदारे वप्रः प्राकाररोधसोः’ । इति वैजयन्ती ।

**हिन्दी—**अप्सराओं के हाथियों, घोड़ों के आलोडन से गङ्गा का जल क्षुब्ध हो गया था। तट पर खड़े हुए उनके रथों से टकरा कर जल फिर नदी को वापस आ जाता था। इस प्रकार जल का आना-जाना उनके लिये एकदम नवीन था। तट पर पंक्ति में खड़े उनके रथ ही सुरनदी का तट बन गये थे ॥ ११ ॥

क्रान्तानां ग्रहचरितात्पथो रथाना- मक्षाग्रक्षतसुरवेश्मवेदिकानाम् । निःसङ्गं प्रधिभिरुपाददे विवृत्तिः संपीडक्षुभितजलेषु तोयदेषु ॥ १२ ॥

**अन्वयः—**ग्रहचरितात् पथः क्रान्तानाम् अक्षाग्रक्षतसुरवेश्मवेदिकानां रथानां प्रधिभिः संपीडक्षुभितजलेषु तोयदेषु निःसङ्गं विवृत्तिः उपाददे ।

**विग्रहः—**ग्रहैश्चरितात् = ग्रहचरितात् । अक्षाणामग्राणि, तैः क्षताः सुराणां वेश्मनां वेदिकाः यैस्तेषाम् = अक्षाग्रक्षतसुरवेश्मवेदिकानाम् । संपीडनेन क्षुभितानि जलानि येषां तेषु सम्पीड़क्षुभितजलेषु । तोयं ददतीति, तेषु = तोयदेषु ।

**अर्थः—**ग्रहचरितात् = सूर्याद्याश्रितात् । पथः = मार्गात् । क्रान्तानाम् = निष्क्रान्तानाम् । अक्षाग्रक्षतसुरवेश्मवेदिकानाम् = चक्रधाराप्रदारितदेवगृहवेदिकानाम् । रथानाम् = विमानानाम् । प्रधिभिः = नेमिभिः । सम्पीडक्षुभितजलेषु = नोदनक्षुभितपानीयेषु । तोयदेषु = अम्भोदेषु । निःसङ्गम् = अप्रतिघातम् । विवृत्तिः = परिभ्रमणम् । उपाददे = स्वीकृतम् ।

७ कि०