किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 356, कुल 707 में से
संदर्भ में पढ़ें| ९८ | किरातार्जुनीयम् |
|---|
कोष:—'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात् प्रधिः पुमान्' इत्यमरः ।
हिन्दी—सूर्यादि ग्रहों के आश्रित मार्ग से निकलते हुए रथों के पहियों के अग्रभागों ( धुरी ) से देवताओं के घरों में बनी हुई वेदिकायें नष्ट-भ्रष्ट हो गईं । उन रथों की नेमियों ने बादलों को रगड़ कर उनके जल को क्षुब्ध कर बड़े वेग से आगे बढ़ना आरम्भ किया ॥ १२ ॥
तप्तानामुपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः । युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥ १३ ॥
अन्वयः—विषाणभिन्नाः क्षरन्तः घनाः तप्तानां सुरकरिणां प्रह्लादम् उपदधिरे परोपकारे युक्तानां महतां रुजत्सु अपि कल्याणी खलु प्रवृत्तिः भवति ।
विग्रहः—विषाणैः भिन्नाः = विषाणभिन्नाः । सुराणां करिणस्तेषाम् = सुरकरिणाम् । परेषामुपकारे = परोपकारे ।
अर्थः—विषाणभिन्नाः = गजदन्तक्षताः । क्षरन्तः = स्रवन्तः । घनाः = मेघाः । तप्तानां = घर्मपीडितानां । सुरकरिणाम् = देवगजानाम् । प्रह्लादम् = आह्लादम् । उपदधिरे = चक्रिरे । परोपकारे = परमार्थे । युक्तानाम् = लग्नानाम् । महतां = सताम् । रुजत्स्वपि = पीडयत्स्वपि । कल्याणी = भद्रा । खलु = किल । प्रवृत्तिः = व्यापारः । भवति । अत्रार्थान्तरन्यासालंकारः ।
कोषः—'विषाणं दन्तशृङ्गयोः' इति हलायुधः ।
हिन्दी—सुरगजों ने बादलों को अपने दांतों से क्षत-विक्षत कर दिया । जिससे जल टपकाते हुए बादलों ने धूप से पीड़ित ( तप्त ) उन हाथियों को उल्टा प्रसन्न ही किया । परोपकार में लगे हुए महान् पुरुषों की पीड़ित होकर भी हितकारिणी प्रवृत्ति ही बनी रहती है, वे अपने परोपकारी मार्ग को छोड़ते नहीं हैं ॥ १३ ॥
संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणिमेखलांशुजालं सञ्जज्ञे युतकमिवान्तरीयमूर्वोः ॥ १४ ॥