किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 357, कुल 707 में से
संदर्भ में पढ़ेंसप्तमः सर्गः ९९
अन्वयः—संवाता अनिलेन दिव्यस्त्रीजघनवरांशुके विवृत्तिमू मुहुः नीयमाने पर्यस्यत्पृथुमणिमेखलांशुजालम् ऊर्वोः युतकम् इव अन्तरीयम् सञ्जज्ञे ॥ १४ ॥
विग्रहः—दीव्यस्त्रीणां जघनेषु वरं यद् अंशुकं तस्मिन् = दिव्यस्त्रीजघनवरांशुके । पर्यस्यतां पृथुमणिमेखलानाम् अंशुजालम् = पर्यस्यत्पृथुमणिमेखलांशुजालम् । अन्तरे भवमन्तरीयम् ।
अर्थः—संवाता = संवहता । अनिलेन = पवनेन । दिव्यस्त्रीजघनवरांशुके= अप्सरोजघनश्रेष्ठपटे । विवृत्तम् = अपसारम् । मुहुः = वारंवारम् । नीयमाने = प्राप्यमाने सति । पर्यस्यत्पृथुमणिमेखलांशुजालम् = प्रसर्पद्विशालमणिकाञ्च्यंशुसमूहम् । ऊर्वोः = जघनयोः । युतकम् = चल्लनम् ( 'लहंगा' इति हिन्द्याम् ) इव । अन्तरीयम् = अधोऽंशुकम् । सञ्जज्ञे = संजातम् । अत्रोत्प्रेक्षा-लंकारः ।
कोषः—'युतकं संश्रये युग्मे यौतके चल्लनेऽपि च' इति विश्वः !
हिन्दी—चलती हुई हवा से अप्सराओं की जांघों के ऊपर का वस्त्र बारम्बार हट जाने पर सरकती हुई विशाल मणि-मेखलाओं का अंशुजाल (किरण-समूह) जांघों पर पहने हुए अधोवस्त्र युतक (पेटीकोट) के समान ज्ञात होता था ॥ १४ ॥
प्रत्यार्दीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः । कान्तानां बहुमतिमाययुः पयोदा नाल्पोयान् बहु सुकृतं हिनस्ति दोषः ॥ १५ ॥
अन्वयः—तुषारपातैः प्रत्यार्दीकृततिलकाः शमितपरिश्रमाः प्रह्लादं दिशन्तः पयोदाः कान्तानां बहुमतिम् आययुः । अल्पीयान् दोषः बहु सुकृतं न हिनस्ति ।
विग्रहः—तुषाराणां पातास्तैः = तुषारपातैः । प्रत्यार्दीकृताः तिलकाः यैस्ते प्रत्यार्दीकृततिलकाः । शमितः परिश्रमः यैस्ते = शमितपरिश्रमाः । सुष्ठु कृतम् = सुकृतम् । बहूनाम् मतयः यस्मिंस्तम् = बहुमतिम् ।
अर्थः—तुषारपातैः = शीकरवर्षैः । प्रत्यार्दीकृततिलकाः = मार्जितविशे-