भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 357, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 357

सप्तमः सर्गः ९९

अन्वयः—संवाता अनिलेन दिव्यस्त्रीजघनवरांशुके विवृत्तिमू मुहुः नीयमाने पर्यस्यत्पृथुमणिमेखलांशुजालम् ऊर्वोः युतकम् इव अन्तरीयम् सञ्जज्ञे ॥ १४ ॥

विग्रहः—दीव्यस्त्रीणां जघनेषु वरं यद् अंशुकं तस्मिन् = दिव्यस्त्रीजघनवरांशुके । पर्यस्यतां पृथुमणिमेखलानाम् अंशुजालम् = पर्यस्यत्पृथुमणिमेखलांशुजालम् । अन्तरे भवमन्तरीयम् ।

अर्थः—संवाता = संवहता । अनिलेन = पवनेन । दिव्यस्त्रीजघनवरांशुके= अप्सरोजघनश्रेष्ठपटे । विवृत्तम् = अपसारम् । मुहुः = वारंवारम् । नीयमाने = प्राप्यमाने सति । पर्यस्यत्पृथुमणिमेखलांशुजालम् = प्रसर्पद्विशालमणिकाञ्च्यंशुसमूहम् । ऊर्वोः = जघनयोः । युतकम् = चल्लनम् ( 'लहंगा' इति हिन्द्याम् ) इव । अन्तरीयम् = अधोऽंशुकम् । सञ्जज्ञे = संजातम् । अत्रोत्प्रेक्षा-लंकारः ।

कोषः—'युतकं संश्रये युग्मे यौतके चल्लनेऽपि च' इति विश्वः !

हिन्दी—चलती हुई हवा से अप्सराओं की जांघों के ऊपर का वस्त्र बारम्बार हट जाने पर सरकती हुई विशाल मणि-मेखलाओं का अंशुजाल (किरण-समूह) जांघों पर पहने हुए अधोवस्त्र युतक (पेटीकोट) के समान ज्ञात होता था ॥ १४ ॥

प्रत्यार्दीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः । कान्तानां बहुमतिमाययुः पयोदा नाल्पोयान् बहु सुकृतं हिनस्ति दोषः ॥ १५ ॥

अन्वयः—तुषारपातैः प्रत्यार्दीकृततिलकाः शमितपरिश्रमाः प्रह्लादं दिशन्तः पयोदाः कान्तानां बहुमतिम् आययुः । अल्पीयान् दोषः बहु सुकृतं न हिनस्ति ।

विग्रहः—तुषाराणां पातास्तैः = तुषारपातैः । प्रत्यार्दीकृताः तिलकाः यैस्ते प्रत्यार्दीकृततिलकाः । शमितः परिश्रमः यैस्ते = शमितपरिश्रमाः । सुष्ठु कृतम् = सुकृतम् । बहूनाम् मतयः यस्मिंस्तम् = बहुमतिम् ।

अर्थः—तुषारपातैः = शीकरवर्षैः । प्रत्यार्दीकृततिलकाः = मार्जितविशे-