भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 366, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 366

१०८ | किरातार्जुनीयम्

भूभर्त्तुः समधिकमादधे तदोर्व्याः
श्रीमत्तां हरिसखवाहिनीनिवेशः।
संसक्तौ किमसुलभं महोदयाना-
मुच्छ्रायं नयति यदृच्छयापि योगः ॥ २७ ॥

अन्वयः—तदा हरिसखवाहिनीनिवेशः भूभर्त्तुः समधिकम् श्रीमत्ताम् आदधे। महोदयानां संसक्तौ किम् असुलभम्। यदृच्छया योगः अपि उच्छ्रायम् नयति।

विग्रहः—हरेः सखा = हरिसखा, तस्य या वाहिनी, तस्यः निवेशः = हरिसखवाहिनीनिवेशः। महान्तः उदयाः येषां तेषां = महोदयानाम्। न सुलभम् = असुलभम्।

अर्थः—तदा = तस्मिन् काले। हरिसखवाहिनीनिवेशः = गन्धर्वसेनाशिविरम्। भूभर्त्तुः = पर्वतस्य। उर्व्याः = भूमेः। समधिकम् = पूर्वस्मादधिकम्। श्रीमत्ताम = श्रियम्। आदधे = जनयामास। महोदयानाम् = महताम्। संसक्तौ = सम्यक्सम्बन्धे। किम् असुलभम् = नास्ति किमपि दुर्लभम्। यदृच्छया = दैवात्। योगः = सम्पर्कः। अपि। उच्छ्रायम् = उन्नतत्वम्। नयति = प्रापयति। अत्रार्थापत्तिरलङ्कारः।

कोषः—'निवेशः शिविरोद्वाहविन्यासेषु प्रकीर्तितः' इति शाश्वतः।

हिन्दी—उस समय गन्धर्व सेना द्वारा बनाया गया सैन्य-शिविर इन्द्रकील पर्वत की भूमि की सर्वोत्तम शोभा को उत्पन्न कर रहा था क्योंकि महान् पुरुषों का सम्यक् सम्बन्ध होने पर कुछ भी दुर्लभ नहीं होता है तथा (सज्जनों का) दैवयोग से प्राप्त सम्पर्क भी उन्नति ही करता है ॥ २७ ॥


सामोदाः कुसुमतरोर्धियो विविक्ताः
सम्पत्तिः किसलयशालिनीलतानाम्।
साफल्यं ययुरमराङ्गनोपभुक्ताः
सा लक्ष्मीरुपकुरुते यया परेषाम् ॥ २८ ॥

अन्वयः—सामोदाः कुसुमतरोर्धियः, विविक्ताः किसलयशालिनीलतानाम्

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 366, कुल 707 में से · BharatKosha