भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 367, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 367

सप्तमः सर्गः १०९

सम्पत्तिः, अमराङ्गानोपभुक्ताः साफल्यम् ययुः । यया परेषां उपकुरुते सा लक्ष्मीः ।

विग्रहः—मोदेन सहिताः = सामोदाः । कुसुमतक्ष्णाम् श्रियः = कुसुमतहरुश्रियः । किसलयशालिन्यः लताः, तासाम् = किसलयशालिनीलतानाम् । अमराणामङ्गनास्ताभिः उपभुक्ताः = अमराङ्गानोपभुक्ताः ।

अर्थः—सामोदाः = ससौरभाः । कुसुमतहरुश्रियः = पुष्पवृक्षशोभाः । विविक्ताः = विजनप्रदेशाः । किसलयशालिनीलतानाम् = नवपल्लवयुक्तवल्लीनाम् । सम्पत्तिः = समृद्धिः । अमराङ्गानोप्भुक्ताः = देवाङ्गानोपभुक्ताः सत्यः । साफल्यम् = सफलताम् । ययुः = अगमुः । यया = लक्ष्म्या । परेषाम् = अन्येषाम् । उपकुरुते = उपकारो विधीयते । सा = सैव । लक्ष्मीः । नान्या इत्यर्थः ।

कोषः—'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः' इत्यमरः ।

हिन्दी—सौरभसम्पन्न, फूलोंवाले वृक्षों की शोभा, विजन-प्रदेश तथा नूतन पल्लवयुक्त लताओं की सम्पत्ति, ये सब वस्तुएँ देवाङ्गनाओं के द्वारा उपयुक्त होने पर सफल हो गईं । परोपकार में काम आनेवाली लक्ष्मी ही वास्तविक लक्ष्मी होती है ॥ २८ ॥

क्लान्तोऽपि त्रिदशवधूजनः पुरस्ता-
ल्लीनाहिश्वसितविलोलपल्लवानाम् ।
सेव्यानां हतविनयैरिवावृतानां
सम्पर्कं परिहरति स्म चन्दनानाम् ॥ २९ ॥

अन्वयः—क्लान्तः अपि त्रिदशवधूजनः पुरस्तात् लीनाहिश्वसितविलोलपल्लवानाम् चन्दनानां सम्पर्कं हतविनयैः आवृतानाम् सेव्यानाम् इव परिहरतिस्म ।

विग्रहः—त्रिदशानां वधूजनः = त्रिदशवधूजनः । लीनानाम् अहीनाम् श्वसितानि, तैः विलोलाः पल्लवाः येषां तेषाम् = लीनाहिश्वसितविलोलपल्लवानाम् । हतः विनयः यैस्तैः = हतविनयैः ।

अर्थः—क्लान्तः = श्रान्तः । अपि । त्रिदशवधूजनः = देवाङ्गनालोकः । पुरस्तात् = अग्रे । लीनाहिश्वसितविलोलपल्लवानाम् = संश्रितसर्पनिःश्वासलोलदलानाम् । चन्दनानाम् = चन्दनवृक्षाणाम् । सम्पर्कम् = योगम् । हतविनयैः=

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 367, कुल 707 में से · BharatKosha