भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 378, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 378

१२० किरातार्जुनीयम्

घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः ।
पुरोऽभिसस्रे सुरसुन्दरीजनैर्यथोत्तरेच्छा हि गुणेषु कामिनः ॥ ४ ॥

**अन्वयः—**घनानि करप्रचेयानि कामं कुसुमानि बिभ्रतः शाखिनः अपहाय सुरसुन्दरीजनैः पुरः अभिसस्रे । हि कामिनः गुणेषु यथोत्तरेच्छाः ।

**विग्रहः—**करैः प्रचेयानि = करप्रचेयानि । सुराणां सुन्दरीजनास्तैः = सुरसुन्दरीजनैः । उत्तरमुत्तरमिच्छाः येषां ते = यथोत्तरेच्छाः ।

**अर्थः—**घनानि = सान्द्राणि । करप्रचेयानि = हस्तग्राह्याणि । कामम् = प्रचुरम् । कुसुमानि = पुष्पाणि । बिभ्रतः = धारयतः । शाखिनः = वृक्षान् । अपहाय = त्यक्त्वा । सुरसुन्दरीजनैः = अप्सरोभिः । पुरः = अग्रे । अभिसस्रे = अभिसृतम् । हि = यतः । कामिनः = कामातुराः । गुणेषु = अतिशयविषयेषु । यथोत्तरेच्छाः = उत्तरोत्तरमभिलाषिणः । भवन्तीति शेषः । अत्रार्थान्तरन्यासालङ्कारः ।

कोषः—'वृक्षो महीरुहः शाखी' इत्यमरः ।

**हिन्दी—**घने और हाथों से तोड़े जा सकनेवाले प्रचुर फूलों से लदे वृक्षों को छोड़कर सुरसुन्दरियाँ और आगे बढ़ने लगी । क्योंकि कामीजन विषयादि गुणों की उत्तरोत्तर इच्छा बढ़ाते रहते हैं अर्थात् विषयादि-सुखों में कभी उन्हें सन्तोष नहीं होता है ॥ ४ ॥

तनूरलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः ।
विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥ ५ ॥

**अन्वयः—**विलेपनामोदहृताः वनालयः तनूः अलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः विलासिनीबाहुलताः सिषेविरे ।

**विग्रहः—**विलेपनस्य आमोदाः, तैः हृताः = विलेपनामोदहृताः । वनानां अलयः = वनालयः । पाणयः एव पल्लवाः = पाणिपल्लवाः, अलक्तैः अरुणाः पाणिपल्लवाः यासां ताः = अलक्तारुणपाणिपल्लवाः । नखांशूनाम् उत्कराः = नखांशूत्कराः । स्फुरन्तः नखांशूत्कराः एव मञ्जर्यस्ताः बिभ्रतीति = स्फुरन्नखांशूत्करमञ्जरीभृतः । विलासिनीनां बाहव एव लतास्ताः = विलासिनीबाहुलताः ।

**अर्थः—**विलेपनामोदहृताः = लेपनहर्षाकृष्टाः । वनालयः = वनभ्रमराः । तनूः = कृशाः । अलक्तारुणपाणिपल्लवाः = लाक्षारसारक्तपाणिपल्लवाः । स्फुर