किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 377, कुल 707 में से
संदर्भ में पढ़ेंअष्टमः सर्गः ११९
विग्रहः--नभसि चरन्तीति तैः=नभश्चरैः। उद्भासिताः शैलाः वीरुधश्च याभिस्ताः=उद्भासितशैलवीरुधः। वनजानीवायतानि ईक्षणानि यासां ताः=वनजायतेक्षणाः। एकरूपस्य भाव एकरूपता ताम्=एकरूपताम्।
अर्थः--यथायथं=यथास्वम्। नभश्चरैः=गन्धर्वैः मेघैश्च। सहिताः=युक्ताः। प्रभाभिः=दीप्तिभिः। उद्भासितशैलवीरुधः=भासितपर्वतवृक्षाः। ताः=पूर्वोक्ताः। वनजायतेक्षणाः=कमलायतलोचनाः। वनं=विपिनं। विशन्त्यः=प्रविशन्त्यः। क्षणद्योतीनाम्=विद्युताम्। एकरूपताम्=साम्यम्। दधुः=धारयामासुः।
कोषः—'यथास्वं तु यथायथम्' इत्यमरः।
हिन्दी--गन्धर्वों के सहित, अपनी कान्ति से पर्वतों और वृक्षों को उद्भासित करती हुई वे कमल सदृश विशाल नयनोंवाली अप्सराएँ वन में प्रविष्ट होती हुई बिल्कुल बिजली जैसी मालूम हो रही थीं ॥ २ ॥
निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तनिर्ह्लादिविभूषणारवः।
नितम्बिनीनां भृशमादधे धृतिं नभःप्रयाणादवनौ परिक्रमः॥ ३॥
अन्वयः--निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तनिर्ह्लादिविभूषणारवः अवनौ परिक्रमः नितम्बिनीनां नभःप्रयाणात् भृशम् धृतिम् आदधे।
विग्रहः--निवृत्तः वृत्तयोरुपयोधरस्य क्लमः यस्मिन् सः=निवृत्तवृत्तोरुपयोधरक्लमः। निर्ह्लादीनि विभूषणानि=निर्ह्लादिविभूषणानि, तेषामारवः। प्रवृत्तः निर्ह्लादिविभूषणारवो यस्मिन् सः=प्रवृत्तनिर्ह्लादिविभूषणारवः।
अर्थः--निवृत्तवृत्तोरुपयोधरक्लमः = गतवर्तुलोरुस्तनश्रमः। प्रवृत्तनिर्ह्लादिविभूषणारवः = जातनिर्ह्लादिनूपुरादिध्वानः। अवनौ = भूमौ। परिक्रमः = सञ्चारः। नितम्बिनीनाम् = अप्सरसाम्। नभःप्रयाणात् = आकाशगमनात्। भृशम् = अधिकम्। धृतिम् = सन्तोषम्। आदधे = धृतवान्। अत्र काव्यलिङ्गमलङ्कारः।
कोषः—'अवनिर्मेदिनी मही' इत्यमरः।
हिन्दी--नितम्बिनी सुराङ्गनाओं को पृथिवी-परिभ्रमण आकाश-भ्रमण की अपेक्षा अधिक रुचिकर लगा। इस भूपरिक्रमण से उनके गोल जांघों और स्तनों की थकावट दूर हो गई। पहने हुए नूपुरादि आभूषणों से मधुर ध्वनि प्रकट हो रही थी ॥ ३ ॥