भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 394, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 394
१३६किरातार्जुनीयम्

विभिन्नपर्यन्तगमीनपंक्तयः पुरो विगाढाः सखिभिर्मरुत्वतः ।
कथंचिदापः सुरसुन्दरीजजैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥ ३०॥

अन्वयः—विभिन्नपर्यन्तगमीनपंक्तयः मरुत्वतः सखिभिः पुरः विगाढाः सभीतिभिः सुरसुन्दरीजनैः तत्प्रथमं कथंचित् आपः प्रपेदिरे ।

विग्रहः—विभिन्ना पर्यन्तगा मीनानां पंक्तयः यासां ताः = विभिन्नपर्यन्तगमीनपंक्तयः । भीतिभिः सहिताः = सभीतिभिः ।

अर्थः—विभिन्नपर्यन्तगमीनपंक्तयः = भिन्नप्रान्तगतमत्स्यरेखाः । मरुत्वतः = इन्द्रस्य । सखिभिः = मित्रैः गन्धर्वैः । पुरः = पूर्वम् । विगाढाः = प्रविष्टाः । सभीतिभिः = सभयैः । सुरसुन्दरीजनैः = अप्सरोभिः । तत्प्रथमं = अवगाहनपूर्वकं । कथंचित् = यथा तथा भयात् । आपः = जलम् । प्रपेदिरे = जगाहिरे ।

कोषः—'झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।' इत्यमरः ।

हिन्दी--( गंगातट पर पहुँच कर ) इन्द्र के मित्र गन्धर्वों ने सर्वप्रथम जल में प्रवेश किया जिससे पंक्ति में तैरती हुई मछलियों का तांता टूट गया और वे इधर-उधर किनारों पर चली गयीं । गन्धर्वों के जलावगाहन के बाद वे सुर-सुन्दरियाँ भी डरती-डरती पानी में प्रविष्ट हुईं ॥ ३० ॥

विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहितपीवरोरुभिः ।
विभिद्यमाना विससार सारसानुदस्य तीरेषु तरंगसंहतिः । ३१ ॥

अन्वयः—प्रयत्नसंवाहितपीवरोरुभिः रमणीभिः अम्भसि विगाढमात्रे विभिद्यमाना तरंगसंहतिः तीरेषु सारसान् उदस्य विससार ।

विग्रहः—प्रयत्नेन संवाहिताः पीवराः ऊरवः याभिस्ताभिः = प्रयत्नसंवाहितपीवरोरुभिः । तरङ्गाणां संहतिः = तरङ्गसंहतिः ।

अर्थः—प्रयत्नसंवाहितपीवरोरुभिः = यत्नसंचारितस्थूलजघनाभिः रमणीभिः = अप्सरोभिः । अम्भसि = जले । विगाढमात्रे = प्रविष्ट एव सति । विभिद्यमाना = विशीर्यमाणा । तरङ्गसंहतिः = ऊर्मिसमूहः । तीरेषु = तटेषु । सारसान् = सारसपक्षिविशेषान् । उदस्य = उत्सार्य । विससार = वितस्तार ।

कोषः—'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः, इति यादवः । 'वक्राङ्गः सारसो हंसः' इति शब्दार्णवे ।

हिन्दी—देवाङ्गनाओं के बड़े प्रयत्न से स्थूल जांघों को जल में रखते