किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 397, कुल 707 में से
संदर्भ में पढ़ेंअष्टमः सर्गः १३९
सरोजपत्रे नु विलोनषट्पदे विलोलदृष्टे स्विदमू विलोचने ।
शिरोरुहाः स्विन्नतपक्ष्मसन्ततेर्द्विरेफवृन्दं नु निशब्दनिश्श्वलम् ॥ ३५ ॥
अन्वयः— अमू विलीनषट्पदे सरोजपत्रे नु विलोलदृष्टेः विलोचने स्वित् नतपक्ष्मसन्ततेः शिरोरुहाः स्वित् निशब्दनिश्श्वलम् द्विरेफवृन्दम् नु ।
विग्रहः— विलीनाः षटपदाः ययोः, ते = विलोनषट्पदे । सरोजस्य पत्रे = सरोजपत्रे । विलोला दृष्टिर्यस्यास्तस्याः = विलोलदृष्टेः । नता पक्ष्मणां सन्ततिः यस्यास्तस्याः = नतपक्ष्मसन्ततेः । शिरसि रुहाः = शिरोरुहाः । निशब्दम् च निश्चल च = निशब्दनिश्श्वलो, तयोः समाहार निशब्दनिश्श्वलम् । द्विरेफाणां वृन्दम् = द्विरेफवृन्दम् ।
अर्थः— अमू = निर्दिष्टे द्वे । विलीनषट्पदे = भ्रमरलीने । सरोजपत्रे = कमलदले । नु इति वितर्के । विलोलदृष्टेः = चञ्चलाक्ष्याः । विलोचने = नेत्रे । स्वित् = नु । नतपक्ष्मसन्ततेः = अवनतपक्ष्मराजेः अवनतनेत्राद्याः । शिरोरुहाः = केशाः । स्वित् = यद्वा निशब्दनिश्श्वलम् = नीरवस्थिरम् । द्विरेफवृन्दम् = भ्रमरसमूहः । नु = स्वित् । अत्र निश्चयान्तसन्देहालङ्कारः ।
कोषः— 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः ।
हिन्दी— कमलदल में छिपी हुई एक अप्सरा को अन्य अप्सरायें देखकर निश्चित नहीं कर सकीं:—
यह सामने भौरों से व्याप्त दो कमल दल हैं अथवा चपलदृष्टि वाली सखी के दो नेत्र हैं ? नीचे को पलक डाली हुई सुन्दरी के यह काले-काले केश हैं अथवा नीरव और निश्चल रूप से बैठे हुए भौरों का वृन्द है ? । अर्थात् यह सखी ही है इस बात का उन्होंने निश्चय नहीं कर पाया ॥ ३५ ॥
अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजम् ।
इति प्रलीनां नलिनीवने सखीं विदाम्बभूवुः सुचिरेण योषितः ॥ ३६ ॥
अन्वयः— अगूढहासस्फुटदन्तकेसरम् मुखम्, स्वित् एतद्विकसत् पङ्कजम् नु, इति नलिनीवने प्रलीनां सखीं योषितः सुचिरेण विदाम्बभूवुः ।
विग्रहः— अगूढः हासः = अगूढहासस्तेन स्फुटाः दन्ताः केसरा इव यस्य तत् = अगूढहासस्फुटदन्तकेसरम् । नलिनीनां वनम्, तस्मिन् = नलिनीवने । प्रकर्षेण लीनाम् = प्रलीनाम् ।