भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 409, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 409

अष्टमः सर्गः | १५१

विग्रहः— पीनैः स्तनैः ऊरुभिः जघनैः च शालन्ते ताभिः = पीनस्तनोरूजघनशालिनीभिः । उत्सर्पितैः ऊर्मिचयेः लंघितः तीरदेशः येन तत् उत्सर्पितोर्मिनिचयलंधिततीरदेशम् । औत्सुक्येन नुन्नम् = औत्सुक्यनुन्नम् ।

अर्थः— पीनस्तनोरुजघनस्थलशालिनीभिः = पीवरपयोधरोरुजघनशोभिनीभिः । वनिताभिः = अप्सरोभिः इत्थम् = अनेन प्रकारेण । विहृत्य = जलविहारं कृत्वा । उदस्यमानं = नुद्यमानम् । उत्सर्पितोर्मिनिचयलङ्घिततीरदेशम् = उर्ध्वाभावं प्रापिततरंगनिचयप्रापिततीरदेशम् । वारि = जलम् । औत्सुक्यनुन्नम् = विहारमहिष्णुत्वप्रेरितम् । इव । पुरः = अग्रे । प्रतस्थे = प्रस्थितम् ।

कोषः— 'भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः ।

हिन्दी— इस प्रकार उन्नत उरोजों और विशाल जांघों वाली अप्सराओं के द्वारा जल विहार करने पर क्षुब्ध होकर सुरसरिता का जल ऊँची ऊँची लहरों में उठकर तट को पार करता हुआ इस प्रकार आगे बढ़ गया जैसे कि वह रमणियों के वियोग को कौतुक के कारण सहन न कर पा रहा हो ॥ ५५ ॥

तीरान्तराणि मिथुनानि रथाङ्गनाम्नां
नीत्वा विलोलितसरोजवनश्रियस्ताः ।
संरेजिरे सुरसरिज्जलधौतहारा-
स्तारावितानतरला इव यामवत्यः ॥ ५६ ॥

अन्वयः— रथाङ्गनाम्नां मिथुनानि तीरान्तराणि नीत्वा विलोलितसरोजवनश्रियः ताः सुरसरिज्जलधौतहारा ताः तारावितानतरलाः यामवत्यः इव संरेजिरे ।

विग्रहः— अन्यानि तीराणि = तीरान्तराणि । सरोजवनानां श्रियः सरोजवनश्रियः । विलोलिताः सरोजवनश्रियः याभिस्ताः = विलोलितसरोजवनश्रियः । सुरसरितः जलैः धौता हाराः यासा ताः = सुरसरिज्जलधौतहाराः । ताराणां वितानैः तरलाः याः ताः = तारावितानतरलाः ।

अर्थः— रथाङ्गनाम्नां = चक्रवाकानाम् । मिथुनानि = युग्मानि । तीरान्तराणि = अन्यानि तीराणि । नीत्वा = नियोज्य । विलोलितसरोजवनश्रियः = विलुलितकमलनयनशोभाः । सुरसरिज्जलधौतहाराः = गङ्गाजलक्षालितमुक्तावलयः । ताः = स्त्रियः । तारावितानतरलाः = उडुगणभासुराः । यामवत्यः = यामिन्यः । इव संरेजिरे = विरेजिरे ।