भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 415, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 415

नवमः सर्गः १५७

हिन्दी- मेघसमूहको आच्छादित करनेवाली सन्ध्यासे व्याप्त आकाशके पश्चिम भागने तरंगोंमें संक्रान्त होकर प्रवालसमूहकी कान्तिसे रञ्जित समुद्रकी शोभाको धारण किया ॥ ९ ॥

प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । संध्ययाऽनुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ १० ॥

मल्लि०- प्राञ्जलाविति ॥ प्रबद्धोऽञ्जलिर्येन तस्मिन् प्राञ्जलौ बद्धाञ्जलौ । 'तौ युतावञ्जलिः पुमान्' इत्यमरः । 'प्रादिभ्यो धातुजस्य बहुव्रीहिर्वाच्यो वोत्तर-पदलोपश्च ।' नतमूर्ध्नि नमस्कुर्व्वाणे तत्प्रवणं तत्र संध्यायामेवाहितं चेतो यस्य तस्मिन्नेवंविधेऽपि जने विषये प्रेम हित्वा विहाय विरमन्त्या निवर्त्तमानया । 'व्याङ्-परिभ्यो रमः' इति परस्मैपदम् । संध्यया चापलेनास्थैर्य्येण । युवादिद्वादण्प्रत्ययः । सुजनादितरो दुर्जनस्तस्य मैत्री सख्यमनुविदधेऽनुचक्रे । कर्मणि लिट् । यथा दुर्जन-मैत्री स्निह्यन्तमपि जहाति तद्वत् संध्यापि सेवमानं जनमहासीदित्यर्थः । मित्रस्य कर्म मैत्री । ष्यञन्तान्ङीप् । अत्र संध्यादुर्जनमैत्र्योश्चापलं समानधर्मोऽनुविधानम् । अत एवार्थरूपेणेयमुपमा ।

हिन्दी- हाथ जोड़नेवाले, नमस्कार करनेवाले और सन्ध्यामें चित्त देने-वाले जनमें भी प्रेम छोड़कर लोटती हुई संध्याने अस्थिरतासे दुर्जनकी मैत्रीका अनुकरण कर लिया ॥ १० ॥

औषसातपभयादपलीनं वासरच्छविविरामपटीयः । संनिपत्य शनकैरथ निम्नादन्धकारमुदवाप समानि ॥ ११ ॥

मल्लि०- औषतेति ॥ औषमात् प्राभातिकादातपाद्भवं तस्मादिवेत्युत्प्रेक्षा । अपलीनं क्वचिद्गूढं वासरच्छवेरातपस्य विरामाद्धेतोः पटीयः प्रभविष्णुतरम् । अन्धं करोतीत्यन्धकारं ध्वान्तम् । 'अन्धकारोऽस्त्रियां ध्वान्तम्' इत्यमरः । अथ संध्यापगमनानन्तरं शनकैर्मन्दमन्दं निम्नात् सन्निपत्यागत्य समानि समस्थलानि । उदवाप व्यानशे । अत्र प्रस्तुतान्धकारविशेषणसाम्यादप्रस्तुतार्यप्रतीतेः समासोक्तिर-लङ्कारः । उत्प्रेक्षा त्वङ्गतः स्यात् ।

हिन्दी- प्रातःकालकी धूपकी डरसे कहीं छिपे और धूपके दूर होनेसे जबर्दस्त होकर अन्धकारने सन्ध्या बीतनेके बाद धीरे-धीरे नीचेकी ओरसे आकर समस्थलों-को व्याप्त कर डाला ॥ ११ ॥