भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 416, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 416

१५८ | किरातार्जुनीयम्

एकतामिव गतस्य विवेकः कस्यचित्न महतोऽप्युपलेभे ।
भास्वता निदधिरे भुवनानामात्मनोव पतितेन विशेषाः ॥ १२ ॥

मल्लि०एकतामिति ॥ एकतामभेदं गतस्येव । तमोव्याप्त्या तथा प्रतीतेरियमुत्प्रेक्षा । महतः शैलादेरपि कस्यचित् कस्यापि पदार्थस्य विवेको भेदो नोपलेभे न गृहीतः । अत एवोत्प्रेक्षते—पतितेनास्तमितेन भास्वता सूर्येण । 'भास्वद्विवस्वत्सप्ताश्व—' इत्यमरः । भुवनानाम् । भुवनस्थपदार्थानामित्यर्थः । विशेषा भूधरादिभेदा आत्मनि स्वस्मिन्नेव निदधिर इव निहिता इव । कथमम्यथा नोपलभ्येरन्नित्यर्थः । अत्रोत्प्रेक्षयोः सजातीययोः सापेक्षित्वादङ्गाङ्गिभावेन सङ्करः ।

हिन्दी—अन्धकार व्याप्त होनेके कारण मानों अभेदको प्राप्त कर विशाल पदार्थका भी भेद नहीं लिया गया । अस्त होनेवाले भगवान् सूर्यने भुवनस्थ पर्वत आदिके भेदोंको भी मानों अपनेमें रख दिया ॥ १२ ॥

इच्छतां सह वधूर्भिरभेदं यामिनीविरहिणां विहगानाम् ।
आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ १३ ॥

मल्लि०इच्छतामिति ॥ वधूभिः स्वकामिनीभिः सह । अभेदमवियोगमिच्छताम् । तथा संकल्पवतामपीत्यर्थः । यामिनीषु विरहिणाम् । नियतवियोगानामित्यर्थः । रह्नेतेरावश्यकेऽर्थे णिनिः । यद्वा—निन्दायामिनिः । तेषां विहगानां चक्रवाकाणां मिथुनानि वियोगमापुरेव । न तु नापुरित्ययोगव्यवच्छेदः । तथा हि—कालनियोगो दैवाज्ञा न लङ्घ्यते खलु । दुर्वार इत्यर्थः ।

हिन्दी—अपनी भार्यासे वियोगकी इच्छा न करनेवाले रातमें सदा बिछुड़नेवाले चकवोंके जोड़ेने बिछोहको पा ही लिया । दैवकी आज्ञाका कोई लङ्घन कर सकता है ? ॥ १३ ॥

यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ ।
नीयते स्म नैतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या ॥ १४ ॥

मल्लि०यच्छतीति ॥ शकुन्तौ चक्रवाकपक्षिणि । सामान्यस्य प्राकरणिकविशेषपर्यवसानात् । 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । अन्तिकगते समीपस्थेऽपि दयितायै चक्रवाक्यै प्रतिमुखमभिमुखं यथा तथा वाचं यच्छति वाचमेव ददाने । न तु संगच्छमाने सतीत्यर्थः । 'पाघ्राध्मा-' इत्यादिना दाणो यच्छादेशः ।